Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 402
________________ संग्रहणिः धर्म-पद तथापि यत युक्त्या घटते तत् सम्यक ज्ञानमितरच मिथ्याज्ञानमिति व्यवस्था भविष्यतीति । अत आह-संवेयणे त्यादि' संवेदनमात्रेण युक्तिमात्रकृतेन प्रतिपक्षनिषेधनमयुक्तं, युक्तीनामुभयत्रापि प्रायः समानत्वात् , तासां पुरुष॥१९९॥ प्रतिभामात्रापेक्षत्वात् ॥ ५०२ ॥ अत्रैव सूरेरभिप्रायमाशङ्कमान आह जं सवण्णुवदेसा जायइ अह तं मयं सुविन्नाणं । तब्भावे किं माणं बहएसु य एस एव त्ति ? ॥ ५०३ ॥ अथोच्येत-यत् ज्ञानं सर्वज्ञोपदेशात् जायते तन्मतं सुविज्ञानं शेपं तु मिथ्याज्ञानमिति। अत्राह-तब्भावेत्यादि' ननु तद्भावे-सर्वज्ञसत्तायां किं मान-प्रमाणं?, भवतु तद्भावस्तथापि बहुषु-कपिलबुद्धवर्द्धमानखाम्यादिषु मध्ये एप एव वर्धमानखामिलक्षणः सर्वज्ञो नत्वितर इत्यत्रापि किं मान-प्रमाणं?, नैव किंचिदित्यभिप्रायः ॥ ५०३ ॥ पुनरप्यत्राचार्याभिप्रायमाशङ्कते देवागमादियं चेव विसेसलिंगं ण एत्थ वि पमाणं । साहारणं च तं पि हु भावम्मि वि तदुबदेसम्मि ॥ ५०४ ॥ देवागमादिकमादिशब्दाचामरादिविभूत्यादिपरिग्रहः विशेषलिङ्गं सर्वज्ञविशेषावगानिमित्तमिति चेत् । अत्रा -SCACROCOCCASSORRECRUGROCRACK ॥१९९॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424