Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
।
अन्येन पुंसा अन्यथा देशिते सति भावे ज्ञानी ज्ञानगर्वेण कलुषितचित्तः सन् विवादं करोति, ततश्च-तस्माच चित्तिकालुष्यात् 'से' तस्य ज्ञानिनो बन्धोऽशुभकर्मणां भवति, तथा च परलोकव्याघात इति ज्ञानं परलोकविवाधकम् । ॥५०॥ यच्चोक्तम्-'नय निच्छयस्स हेउत्ति' तत्समर्थयमान आह
सवे वि मिहो भिन्नं नाणं इह नाणिणो जओ बेंति ।
तीरड न तओ काउंविणिच्छओ एयमेव त्ति ॥ ५०१॥ सर्वेऽपि-ज्ञानिनो मिथः-परस्परं यतो-यस्मात् ज्ञानं भिन्नमेव ब्रुवन्ति, ततो न विनिश्चयः कर्तुं शक्यते, यथाएतत् ज्ञानम् एवं सम्यक् मिथ्या चेति ॥५०१॥ एतदेव भावयति
तविसयदरिसणातो जुजइ एसो ण तं च पारोक्खे ।
संवेदणमेत्तेण तु पडिपक्खनिसेहणमजत्तं ॥ ५०२॥ तद्विषयदर्शनात्-ज्ञानविषयदर्शनात् एष-ज्ञानस्य सम्यक्त्वमिथ्यात्वविषयो निश्चयः कर्तुं युज्यते नान्यथा, न च तद्विषयदर्शनं पारोक्षे-परोक्षविषये ज्ञाने अस्तीति, तद्विषयस्य परोक्षत्वादेवेति । स्यादेतत् , मा भूत् तद्विषयदर्शनं,
१ वेति खपुस्तके।
JainE
.३४
For Private & Personel Use Only
PMw.jainelibrary.org

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424