Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 406
________________ धर्म | संग्रहणिः ॥२०॥ यच्च-यस्माच ज्ञानिनोऽकार्याचरणे प्रवर्त्तमानस्य सतस्तीवः परिणामो जायते, नहि जानतोऽकार्य तीव्राभिष्वङ्गमन्तरेण प्रवृत्तिर्भवतीति । तस्माच तीव्रपरिणामाद्वन्धोऽप्यशुभकर्मणां तीब्रो भवति ॥५१०॥ अपि च, नाणी वि कुणइ पावं नृणं ता एयमेव सेयं ति। लोगस्स विपरिणामं जणयंतो बंधई कम्मं ॥ ५११ ॥ । यदि ज्ञानं भवत् अवश्यं पापानिवृत्तिं कारयेत् ततः श्रेयो, यावता ज्ञान्यपि-ज्ञानवानपि पापं करोति 'ता'तस्मात् | ज्ञाने सत्यपि विशेषाभावात् नूनमेतदेवाऽज्ञानमेव श्रेय इति । अन्यच, यदा ज्ञानवानप्यकार्ये प्रवर्तते तदा लोकस्य परलोकास्तिक्यादिविषये विपरिणामो जायते,-यदि हि परलोकादिकं किंचित् स्यात् ततः कथमेष ज्ञानवानपीत्थं| हप्रवर्तते ? इति । विपरिणामं च लोकस्येत्थं जनयन् प्रभूतमशुभं कर्म वनाति । तन्न ज्ञानं प्रेक्षावतामुपादातुमुचितमिति ॥५११॥ एतदेवोपसंहरन्नाह तम्हा परलोगसमुजयस्स भिक्खुस्स असढभावस्स । चरणोवघायगेणं नाणेण अलमसंगस्स ॥ ५१२ ॥ -COLOCALCOCALCARRIENCOCOCOG ॥२०॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424