Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शब्दान्वर्थात, तदुक्तम्-"तद्भावः परिणामो यत्तेन तथा भूयत इति"। तस्मात्स कथमेकान्तक्षणिकपक्षे स्यादिति ?। अथोच्येत-किं तेन कथंचिदवस्थान्तरापत्तिरूपेण परिणामेन ?, पूर्वक्षणसामर्थ्यादेव हि तथारूपसंक्लेशपरिणामोपेतःस उत्तरक्षण उपजायते, ततस्तस्य हिंसकत्वमिति । तदप्ययुक्तम् , पूर्वक्षणादसंक्लिष्टात् केवलात् तथासंक्लेशविशिष्टोत्तरक्षणानुपपत्तेः, अन्यथा योगिनामपि तत्प्राप्तिप्रसङ्गात् । मा भूत् केवलात् पूर्वक्षणात्, हिंस्यादिसहकारिसचिवात्तु भविष्यतीति चेत् । न । हिंस्यादिसहकारिणः सकाशात् पूर्वक्षणस्य समकालभावितया अतिशयलाभायोगात् । अनतिशयाच तस्मात् हिंस्यादिसहकारिविकलादिव तथारूपसंक्लेशविशिष्टस्योत्तरक्षणस्योत्पादासंभवात् ॥ ४७२ ॥ अथ मा स्मोत्पादि पूर्वक्षणसामर्थ्यादेष तथारूपसंक्लेशपरिणामः किंतु निर्हेतुक एवासावुत्पद्यत इति, एतहपयितुमाशङ्कते
निरहेउगो तओ अह निच्चं भावो ण वा कदाचिदवि ।
तस्सेवंपि हु सिक्खावतदेसणमणुववन्नं तु ॥ ४७३ ॥ अथ 'तउत्ति'सकस्तथारूपसंक्लेशपरिणामो निर्हेतुक इत्यत्राह-'निचं भावो न वा कदाचिदवि' यदि स परिणामो निर्हेतुकस्ततस्तस्य नित्यं भावः प्राप्नोति न वा कदाचिदपि । “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादिति न्यायात्" । ततस्तस्यैवमपि प्राणातिपातविरमणलक्षणशिक्षाव्रतदेशनमनुपपन्नमेव । तुशब्द एवकारार्थः । तन्न खहेतुत
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424