Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 381
________________ तस्य स्वरूपाविशेषात् , प्रथमक्षणवत्। तस्मानास्य क्रमेणार्थक्रियासंभवः, नापि यौगपद्येन, प्रथमक्षण एव सकलार्थक्रियानिष्पादने सति द्वितीये क्षणे करणस्याभावतोऽकारकत्वप्रसङ्गेन खभावभेदापत्तेः, तन्नाक्षणिके अर्थक्रियासामय 2 सत्त्वलक्षणं घटते । तदुक्तम्-“असन्तोऽक्षणिकास्तस्यां, क्रमाक्रमविरोधत" इति । क्षणिकं च वस्तु उत्पत्त्यनन्तरं निर्हेतुकविनाशे सति घटते नान्यथा, ततोऽर्थक्रियाभावान्यथानुपपत्तिः पूर्वोक्तखभावकल्पनानिबन्धनमित्यदोषः । अत्र चार्थक्रियाभावः प्रमाणनिबन्धनत्वात् प्रमाणमित्युक्तः, कारणे कार्योपचारात् । अत्राचार्य आह-'नहीत्यादि' नहि सा अर्थक्रिया भवत्पक्षे उत्पत्तिमन्तरेणान्या काचित्, किंतूत्पत्तिरेव । यदुक्तम् “भूतिर्येषां क्रिया सैव, कारक |सैव चोच्यत" इति । सा चोत्पत्तिनिरन्वयपक्षे-कारणस्य निरन्वयविनाशाभ्युपगमे उत्तरस्यात्यन्तासतःअसंगता, कुत ? इत्याह-अतिप्रसंगात् , खरविषाणस्याप्युत्पत्त्यापत्तेरिति ॥४६९ ॥ निर्हेतुकविनाशाभ्युपगमे परस्य खागमविरोधं दर्शयति पाणाइवायविरई-सिक्खावतदेसणामुहा एवं । निविसयत्ता जणगो हिंसागारित्ति पंडिच्चं ! ॥ ४७० ॥ प्राणातिपातविरतिलक्षणशिक्षाप्रतदेशना एवं-खहेतुत एव नाशाभ्युपगमे सुधा-वृथा प्राप्नोति, निर्विषयत्वात् , Jain Education Intel For Private & Personel Use Only Talwww.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424