Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 382
________________ धर्म - ॥ १८९॥ यदि हि कोऽपि विनश्येत् ततः सा उपपद्येत नान्यथेति । अपि च, यदि खोत्पादहेतुत एव नाशस्तर्हि खोत्पादहेतुरेव तस्य विनाशकः प्राप्तः तथा च सति पुत्रस्य जनकः-पिता हिंसाकारी - हिंसक इत्यापतितमित्यपूर्वमहो पाण्डित्यं तव, लोकागमव्यवस्थोत्तीर्णत्वात् ॥ ४७० ॥ तदेव भावयति हि सुयजम्मे पिउणो सिद्धं लोगम्मि हिंसगो एस । समएव णावि सिक्खा - वयभंगो तस्स जम्मम्मि ॥ ४७१ ॥ नहि पितुः सकाशात् सुतस्य जन्मनि सति इदं लोके सिद्धम् 'एष' पिता सुतस्य हिंसक इति । नापि तस्य -सुतस्य जन्मनि समयेऽपि - आगमेऽपि पितुः शिक्षानतभङ्गो देशित इति ॥ ४७१ ॥ पर आहपरिणामाओ हिंसा सोऽवि कहं खणिगपक्खवायम्मि ? | परिणमणं परिणामो जम्हावत्थंतरावती ॥ ४७२ ॥ स्यादेतत्, न जनकत्वमात्रेण हिंसा, किंतु हन्म्येनमिति चेतसि संक्लेशपरिणामात्, न चासौ पितुः सुतजन्मनि विद्यते, ततो न कश्चिद्दोष इति । तत्राह - 'सोऽवीत्यादि' सोऽपि परिणामः कथमेकान्तक्षणिकपक्षवादे घटते १, नैव घटते इत्यर्थः, यस्मात्कथंचिदवस्थितस्य कथंचित् पूर्वरूपत्यागेन अवस्थान्तरापत्तिः परिणाम उच्यते, परिणमनं परिणाम इति Jain Education International For Private & Personal Use Only संग्रहणिः ॥ १८९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424