Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ ९८२ संग्रहणि ॥१९॥ एव भावानां विनाशः किंतु मुद्रादेरिति स्थितम् ॥ यत्पुनरुक्तं 'विनाशहेतुः किं विनाश्यमेव कुर्यादित्यादि तत्र विनाश्यपक्षः केवलतदन्यभावान्तरपक्षश्वानभ्युपगमादेव न नः क्षितिमावहति । तदभावपक्षोऽपि केवलपर्युदासरूपः केवलप्रसज्यरूपो वा अनभ्युपगमेनैव तिरस्कृतः । उभयरूपाभ्युपगमे तु दोषाभावः । यदप्यत्रोक्तम्-तदभाव-18 मथ करोतीति पक्षस्तर्हि भावं हन्त न करोतीत्यापतितं, प्रसज्यपक्षे नञः क्रियापदेनैव संबन्धात् , अभावस्य प्रसज्यप्रतिषेधरूपस्य एकान्ततुच्छरूपतया कर्तुमशक्यत्वादिति । तदप्यनल्पतमोविलसितम् , अभावस्य प्रसज्यप्रतिषेधरूपस्य वस्तुधर्मतया एकान्ततुच्छरूपत्वाभावात् , एतच्च प्रागेवाभिहितमिति । चरमपक्षोऽप्यबाधक एव, अकिंचि-18 कराणामप्युत्पत्ताविय नाशेऽपि हेतुत्वाभ्युपगमे दोषाभावात् । यदप्युक्तम् 'नश्वरो वा स्यादनश्चरो वेति विकल्पद्वयम्,' तत्रानश्वरपक्षोऽनभ्युपगमादेवापास्तः । नश्वरपक्षेऽपि प्रतिनियतानुपकारिसहकारिसापेक्षत्वेन नश्वरखभावाभ्युपगमे दोषाभाव इति । एतेन 'न यसो हवेज नियमा कयगाणवि कारणंतरावेक्खो' इत्याद्यपि प्रत्युक्तम् । यतस्तेषामित्थंभूत एव स्वभावः स्वहेतुभ्यः समुत्पन्नो येनानुपकारिणमपि प्रतिनियतमेव सहकारिणमासाद्यावश्यं विनश्यतीति । तथा च सति न केषांचित् कृतकानामपि न विनाशः प्राप्नोति, तत्वभावसामर्थेन कारणान्त- राणामवश्यमुपनिपातसंभवात् । अन्यथा तेषां तत्स्वभावत्वायोगात् । वस्त्रस्य तु तथाखभावत्वाभावान्नावश्य रागकारणोपनिपातसंभवस्तदसंभवाच नावश्यं रागसंभव इति । यदप्युक्तम् 'किंच सहेउपक्खे कजस्स व तस्स ॥१९॥ Jain Education Inter ? For Private Personel Use Only & w.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424