Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ शकं यावदवस्थानमभूत् तथा चरमक्षणवर्तितत्वभावसामर्थ्यादन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, न्यायस्य समानत्वात् , तत्रापि चरमसमये स एव स्वभाव इत्यन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, तत्रापि चेयमेव युक्तिरित्याकालनित्यतापत्तिः, अथ चान्ते क्षयो दृश्यते, तस्मादन्तक्षयदर्शनान्यथाऽनुपपत्त्या तस्यादावपि क्षयोऽनुमीयत इति, तदेतदयुक्तम् , वर्षदशकस्थितिखभावत्वेऽभिहिते सति परमार्थतो विकल्पयुगलस्याप्रवृत्तेः, तस्य कथंचिद्वादानुयायित्वात् । तथाहि-घटः खहेतुभ्यो वर्षदशकस्थितिखभावः समुत्पन्नस्तत्कथमस्य प्रथमक्षणमात्रातिक्रमे सति एकान्तेनातादवस्थ्यं भवेत् ?,प्रथमक्षणस्य वर्षदशकवायोगात् , कथं वा तादवस्थ्यमेव ?, तथा सति वर्षदशकस्थितिखभावत्वविरोधात्, यदि हि तस्य कथंचित् प्रतिक्षणमपचयभावेन वर्षदशकचरमक्षणे वर्षदशकस्थितिखभावत्वस्य सर्वात्मना निवृत्तिर्भवति तदा तस्य तत्वभावत्वकल्पना कर्तुं युज्यते नान्यथा, तन्न वर्षदशकस्थितिखभावत्वस्य प्रथमक्षणातिक्रमे सत्येकान्तेन निवृत्ति प्येकान्तेनानिवृत्तिः किंतु कथंचित् । तथाहि-प्रथमक्षणापेक्षया निवृत्तिः, शेषक्षणापेक्षया चानिवृत्तिरिति । एतदुक्तं भवति-वर्षदशककालस्य नियतमानत्वात् एतद्वर्षदशकस्थितिस्वभावत्वं मनुव्यपर्यायवत् प्रतिक्षणमवश्यं न्यूनभावेन परिणामि । तथाहि-यदेव प्रथमे क्षणे वर्षदशकस्थितिखभावत्वमासीत् तदेव द्वितीये क्षणे प्रथमक्षणहीनवर्षदशकस्थितिखभावत्वरूपतया उपजातम् , एवमुत्तरक्षणेष्वपि भावनीयमिति न कश्चिद्दोष इति कृतं प्रसङ्गेन ॥ ४७४ ॥ उपसंहारमाह ACCORMATOMACANCCNX Jain Education Intel For Private & Personel Use Only A ww.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424