Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणि
॥१९२॥
C%ACOCOCALCASKAR
तम्हा परिणामी खलु जीवो लोगप्पमाणओ सिद्धो।
अधुणा जहेस णाता तह सुत्तादेसतो वोच्छं ॥ ४७५ ॥ तस्मात्परिणामी खलु जीवो लोकतः प्रमाणतश्च सिद्ध इति स्थितम् ॥ (इति) परिणामित्वसिद्धिः॥ समर्थितं मूलद्वारगाथो पन्यस्त परिणामित्वमिदानीं तु ज्ञायकत्वं समर्थयितुकामस्तदुपक्षेपं कुर्वन्नाह-'अहुणेत्यादि' अधुना यथा एष जीवो ज्ञाता भवति तथा सूत्रादेशतः वक्ष्ये ॥ ४७५ ॥ प्रतिज्ञातमेवाह
णाता संवित्तीओ जीवो नहि नाणभिन्नरूवाणं ।
सा अत्थि घडादीणं तकज्जाऽदरिसणाउ ति ॥ ४७६ ॥ ज्ञाता-जखभावो ज्ञानादभिन्न इति प्रतिज्ञा। संवित्तेः-संविदानत्वादिति व्यतिरेकी हेतुः । व्यतिरेकमेवास्य विपक्षासाधयति 'नहीत्यादि' न हि-यस्मात् घटादीनां ज्ञानाद्भिन्नरूपाणां सा संवित्तिः-संविदानता अस्ति । कुत ? इत्याह'तत्कार्यादर्शनात्' तत्कार्यस्य-पर्यालोचनापूर्वकनियतप्रवृत्तिनिवृत्त्यादिलक्षणस्यादर्शनात् इति । तस्मादयं जीवः संवित्युपलब्धेर्ज्ञानादभिन्न इत्यनुमीयते । एतदुक्तं भवति-इयं संविदानता तावजीव एवोपलभ्यते नतु घटादौ, तद्यदि ज्ञानाद्भिन्नरूपेऽपि जीवे स्यात् ततो घटादावपि प्रसज्येत, भेदाविशेषात् , तथा च सति सर्ववस्त्वाश्रयतया भवेत्
For Private Personal Use Only
Clow.jainelibrary.org
Jain Education

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424