Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ धर्म संग्रहणि. ॥१८७॥ चेदि'त्याशङ्कय 'न, तस्य भवनधर्मिणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते ततो नापरकुञ्जरादेरपि भावशब्दःप्रवृत्तिनिमित्तमिति" यदुच्यते तत् प्रतिक्षिप्तं द्रष्टव्यम् , भावानुविद्धतया कथंचित्तस्या अपि भावरू-18 |पत्वाभ्युपगमात् । अन्यथा ज्ञेयत्वाद्यनुपपत्तेः । यद्येवं तर्हि भावादभावस्य विशेषाभावप्रसङ्ग इति चेत् ? । न । पूर्वापररूपव्यापत्त्यापत्तिलक्षणस्वभावभेदतो विशेषाभावप्रसङ्गाभावात् । पूर्वरूपव्यापत्तिखभावो हि घटाघभावः, अपररू-| पापत्तिखभावा च कपालाद्युत्पत्तिरिति ॥४६५ ॥ अथोच्येत-नैव काचिदन्या घटादिनिवृत्तिः किंतु कपालाद्युत्पत्तिरेव, तदनन्तरं तस्सा एवोपलभ्यमानत्वादत आह णय सा उप्पत्ति च्चिय भिन्ननिमित्तत्ततो विरोधातो। परिकप्पिय त्ति निच्चं अन्नत्ते पुत्वदोसा उ ॥ ४६६ ॥ न च सा-घटादिनिवृत्तिः उत्पत्तिरेव-कपालाद्युत्पत्तिरेव केवला । कुत इत्याह-भिन्ननिमित्तत्वतो विरोधात्-भिन्ननिमित्तत्वेन ऐक्यस्य विरोधात् । तथाहि-घटादिनिवृत्तेनिमित्तं घटादिखरूपव्यापत्तिरूपतया भवनस्वभावता, कपालाद्युत्पत्तेश्च तद्रूपभवनखभावतेति, कथमनयोरैक्यं ?, मा प्रापदतिप्रसङ्ग इति, न घटाधनन्तरं कपालाद्युत्पत्तिरेव केवला उपलभ्यते, किंतु तन्निवृत्तिविशिष्टा, अविगानेन सर्वेषां तथानुभवभावात् । अत्रैवाशङ्काशेष परिहर्तुमाह-'परि ॥१८७॥ Jain Education Intera For Private & Personel Use Only Aurjainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424