Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Ka
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
मध्यापा. ] सिद्धिस्थानम्।
३७६६ नावनचावपीड़श्च धमनं धूम एव च। .. प्रतिमर्षश्च विज्ञयं नस्तःकर्म च पञ्चधा ॥ स्नेहनं शोधनञ्चैव द्विविधं नावनं स्मृतम् । शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः॥ चूर्णस्याध्मापनं तद्धि देहश्लेष्मविशोधनम् । विज्ञ यस्त्रिविधो धूमः प्राग्भक्त-*-शमनादिकः ॥ । प्रतिमर्षो भवेत् स्नेहो निर्दोष उभयार्थकृत् ।
एवं तवचनं कर्म तपरशमनं त्रिधा ॥४४॥ तेन नासाद्वारेण तन्नस्यं शिरो व्याप्य तान् शिरोरोगान् हन्ति । तस्य भेदमाहनावनञ्चेत्यादि । नावनादिकं पञ्चधा नस्तःकर्म विज्ञ यम् । तत्र नावनं द्विविध स्नेहनं शोधनश्च, नावनं नस्तम्। अवपीड़ोऽपि द्विविधः शोधनः स्तम्भनश्च, अवपीज्य दीयते यस्मादवपीड़स्ततः स्मृतः। चूर्णस्याध्मापनं द्विमुखनलिकया नासापुटे फुत्कारेण दानं धमनम्, तद्धि देहश्लेष्मविशोधनमेकविधमेव । धूमस्तु त्रिविधो विशे यः। प्रागभक्तः शमनः शोधनश्चेति। प्रतिमर्षो भवेत् स्नेह एव स उभयाकन शोधनश्च शमनश्च निर्दोषः स्यात् । तदाह-एवमित्यादि । तत् प्रतिमषेकम्मै त्रिधा रेचनं शिरोविरेचनं तर्पणं शमनश्च ॥ ४३ । ४४ ॥ विरो व्याप्य । तानिति शिरोगदान । शिरोरोगदानप्रस्तावागतानवश्यवक्तव्यनस्तःकम्मभेदानाहनावनमित्यादि। नावनादयश्चिकित्सास्थानोकाः। भव सुश्रुते धूम वर्जयित्वा पनविध नाकम्मोक्तम्-"नस्यं तत् पञ्चविधविकल्पम् , तद यथा-नस्यं शिरोविरेचनं प्रतिमोऽवपी: प्रथममा" इति। इह तु नावनशब्देनैव शिरोविरेचनमपि गृहीतम्, यदुक्तम्-"स्नेहनं शोधनम्चव नावनं विविध स्मृतम्" इति। तेन सुश्रुतोक्तोऽप्यर्थो गृहीत एव । शोधनं खम्भनव सादवपीड इस्यत्र संशमनमप्यवपीडस्य कर्मेच्छन्ति, तच्च स्तम्भन एवान्तर्भावनीयम् । अवपीन्य यस कादीनि दीयन्ते इत्यक्षपीडा, अनेन शिरोविरेचनार्थ दीयमानसैन्धवपिप्पल्यादि
कलाप्यवरोधः। मापनं देहस्रोतोविशोधनमिति वचनात्, शिरोविरेचनप्रयोजनकमेवेति इसंयति। शमनादिक इत्यत्र शमनशब्देन प्रायोगिक गृहाति, तेन प्रायोगिकस्नैहिक रेवनिकभूमानां नासादीयमानानामिह ग्रहणम् । मुखपेयस्तु धूमो न नस्यम् । उभयार्थकृदिति स्नेहविरेचना कृत् । प्रतिमर्षलक्षणमने "नस्तः स्नेहाङ्ग लिं दद्यात्' इत्यादिना वक्ष्यमाणम् । सतपत्रविध. नस्तम्कर्मणस्त्रविष्यमाह-एवमित्यादि । कम्मति नस्तःकर्म। शमनेन खम्भनस्यापि ग्रहणम् ।
• धमनादिक इत्यन्या पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601