Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1565
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशोऽध्यायः । अथात उत्तरवस्तिसिद्धिं व्याख्यास्यामः, इतिह रमाह भगवानात्रेयः ॥ १ ॥ अथ खल्वातुरं वैद्यः संशुद्धं वमनादिभिः । दुर्बलञ्चाममन्दाग्निं मुक्तसन्धानबन्धनम् ॥ नि तानिलविण्मूत्र- कफपित्तं कृशाशयम् । शून्यदेहं प्रतीकारासहिष्णु प्रतिपालयेत् ॥ यथैव तरुणं पूर्ण तलपात्रं तथैव च । गोपाल इव दण्डी गाः सर्व्वस्मादपचारतः ॥ २ ॥ गङ्गाधरः – अथाध्यायोद्देशक्रमात् पारिशेष्याच्च उत्तरवस्तिमाह – अथात इत्यादि । पूच्चैवत् सर्व्वं व्याख्येयम् ॥ १ ॥ गङ्गाधरः—अथ खल्वित्यादि । वमनादिभिः संवृद्धमातुरं दुर्बलादिश्च बद्यः प्रतिपालयेत् । तत्र दृष्टान्तः यथवेत्यादि । यथा तरुणं तलपूर्ण पात्र रक्षयेत् तथा, एवं गोपालो यथा दण्डं गृहीला गा रक्षयेत्, तथा सर्व्वस्मादपचारात् निरुक्तमातुरं रक्षेत् ॥ २ ॥ चक्रपाणिः - पारिशेष्य देवोत्तरवस्तिसिद्धिरभिधीयते । उत्तराणां श्रेष्ठानां वस्तीनां सिद्धिरुत्तरवस्तिसिद्धिः । वक्ष्यमाणवस्तीनां विषयं मिथ्योपचारजन्याधिप्रशमं दर्शयितुं सम्यगुपचारमेव तावदाह - अथ खविति । वमनादिभिरिति वमनविरेचनयोः वक्ष्यमाणः सम्बन्धः सम्बध्यते, हेनायं क्रमः एतयोर्न भवति । मुखसन्धानबन्धनमिति मुवसन्धिबन्धनम् । कृशाशयमिति दोषशून्याशयम् । प्रतिकारासहिष्णुमित्युचै भष्यादिक्रियाक्षमं किंवा वमनादिप्रयोगासहिष्णुम् । परिपालयेत् सर्व्वस्मादपचारत इति सम्बन्धः । तरुणादिदृष्टान्ततयाभिधानं कस्यचित् किञ्चित् प्रसिद्ध भविष्यतीत्यभिप्रायेण ॥ १ ॥ २ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601