Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८१८
चरक संहिता ।
[ उत्तरवस्तिसिद्धिः
भवत्यर्थ प्राप्तिरपतपण साध्योऽयमिति । सुश्रुते च यदकीत्तितमर्थादापद्यते सार्थापत्तिः । यथा - ओदनं बुभुक्षुरित्युक्तेऽर्थादापन्नं भवति नायं पिपासुर्यवागूमिति || || निर्णय इति । निर्णयो नाम तन्त्रयुक्तिः सा यत् पूब्बेपक्षस्योत्तरवचनम् । यथा कतिधा पुरुषीये - निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् । स्वतन्त्रश्चेदनिष्टासु कथं योनिषु जायते ? तत्रोत्तरम् - अचेतन क्रियावच्च मनश्चतयिता परः । युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः । यथास्वेनात्मनात्मानं सव्वैः सर्व्वासु योनिषु । प्राणस्तन्त्रयते प्राणी न बन्योऽन्यस्य तन्त्रकः" इति । सुश्रुते च - तस्योत्तरं निर्णयः । यथा - शरीरं प्रपीडय पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वात एवमसाध्या बावजा इति || || प्रसङ्ग इति । प्रसङ्गो नाम तन्त्रयुक्तिः सा यत् प्रकरणान्तरेण समापनम् । यथा - सच्चमात्मा शरीरश्च त्रयमेतत् त्रिदण्डवत् । लोकस्तिष्ठति संयोगात् तत्र सर्व्वं प्रतिष्ठितम् । स पुमांश्चेतनं तच तचाधिकरणं स्मृतमिति प्रथमाध्यायेऽभिधाय पुनः कतिधापुरुषीये प्रोक्तं चेतनाधातुरप्येकः स्मृतः पुरुषसंक्षकः । खादयश्वेतना षष्ठधातवः पुरुषः स्मृतः । ततश्च धातुभेदेन चतुर्व्विशतिकः रसृत इति । सुश्रुते च - प्रकरणान्तरेण समापनं प्रसङ्गः, यद् वा प्रकारान्तरितो योइसकृदुक्तः समाप्यते स प्रसङ्गः । यथा - पञ्चमहाभूतशरीरिसमवायः पुरुषः तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभिहितं पश्च महाभूतशरीरिसमवायः पुरुष इति स खल्वेवं कम्मे पुरुषचिकित्सायामधिकृत इति ||०|| एकान्त इति । एकान्तो नाम तन्त्रयुक्तिः सा, सब्बंग पदवधारणेनोच्यते । अवधारणं विधेयायोगव्यवच्छेदः । यथा - कटुकः कटुकः पाके वीय्र्योष्णचित्रको मतः । तद्वद् दन्तीमभावाद्धि विरेचयति मानवमिति सस्मिन्नेव चित्रके कटुकखाद्ययोगव्यवच्छेदः । सर्व्वत्र दन्त्याश्च कटुकलाद्ययोगव्यछेदो विरेचकत्वायोगव्यवच्छेदश्चेति । सुश्रुते चोक्तम्- सर्व्वत्र यदवधारणेनोच्यते स एकान्तः । यथा त्रिवृद् विरेचयति, मदनफलं वामयतीति । एतेन विधेयायोगव्यवच्छेद एवावधारणं ख्यापितम् । तथा च पायें एवं सम्वत्aataraant शातिमात्रदर्शनमतियोगः । एकान्तो नाम एवमाद्याभधानम् । नकान्तः पुत्रयुग्रशब्दात् सर्व्वगो न चेदित्यादिनान्यतरपक्षावधारणम् । यथा-ये यातुराः केनवद् प त्रियन्म ते सर्व एव भेषजोपपश्चाः । अपवर्गो नाम. साकल्येनोद्दिष्टस्यैकदेशापकर्षणम् । प्रथा-स प पिलानमाददीतान्यस मांसहस्तिशुष्कभक्षेभ्य इति । तत्र हि सामान्येन पयुषितभोजानिषेधं कृत्वा मांसादेः पर्युषितस्य ग्रहणमपकृष्य विधीयते । विपयो नाम मिझो
For Private and Personal Use Only

Page Navigation
1 ... 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601