Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः ] सिद्धिस्थानम् ।
३८१७ उपदेशापदेशाति-देशार्थापत्तिनिर्णयाः। व प्रसङ्गकान्तनैकान्ताः सापवर्गा विपर्यायः ॥ परिसमाप्यते, यथा-अथापरे त्रयो वृक्षाः पृथग ये फलमूलिभिः। स्नुखकाइमान्तकास्तेषामिदं कम्मै पृथक् पृथगित्यत्र शृण्विति पदमनुक्तं वाक्यशेषः । मुश्रुते च-येन पदैनानुक्तेन वाक्यं समाप्यते स वाक्यशेषः। यथा-शिरपाणि. पादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति ॥०॥ प्रयोजनमिति। प्रयोजनं नाम तन्त्रयुक्तिः सा, यदर्थमारभ्यन्त आरम्भा इति विमाने स्वयमुक्तमुदाहृतश्च तत्रव । नेदं सुश्रुते तन्त्रयुक्तिपूक्तम् ।।०॥ उपदेश इति । उपदेशो नाम तन्त्रयुक्तिः सा, इदमेवमिदं नवमिति यदुच्यते। यथायत्राश्रिताः कर्मगुणाः कारणं समवायि यत् । तद्रव्यं समवायी तु निश्चेष्टः कारणं गुणः इत्येवमादिः। सुश्रते च-एवमित्युपदेशः । यथा-तथा न जागृयाद रात्री दिवाखमश्च वर्जयेत् इति ॥०॥ अपदेश इति । अपदेशो नाम तन्त्रयुक्तिः सा, कारणेनानेनेदमिति यदुच्यते । यथा-अथ प्रवयसां शुक्र प्रायशः क्षीयते नृणाम्। रसादीनां संक्षयाच तथवादृष्यसेवनादिति। सुश्रुते च–अनेन कारणेनेत्यपदेशः । यथोपदिश्यते-मधुरेण श्लेष्माभिवर्द्धत इति ॥०॥ अतिदेश इति । अतिदेशो नाम तन्त्रयुक्तिः सा, यत् प्रकृतस्यानागतेन साधनम् । यथासवाक्यश्च शमं याति ज्वरः क्रोधसमुद्भवः इति । मुश्रुते च-प्रकृतस्यानागतेन साधनमतिदेशः। यथा-अनेनास्य वायुरूद्ध उपतिष्ठते, तेनोदावत्तः स्यादिति ॥०॥ अर्थापत्तिरिति। अर्थापत्तिर्नाम तन्त्रयुक्तिः सा, यत्रकेनार्थेनोक्तेन परस्यायस्यानुक्तस्य सिद्धिः। यथा-नायं सन्तर्पणसाध्यो व्याधिरित्युक्ते
यदर्थ कामयमाना प्रवृत्तिथा-"भातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्"। उपदेशो नामामानुशासनम्-स्नेहमने प्रयुक्षीत ततः स्वेदमनन्तरमित्यादि । अपदेशो नाम यत् प्रतिज्ञावार्थसाधनाय हेतुवचनम्, यथा-वाताजलं जलाद्देशं देशात् कालं स्वभावतः, विद्यादित्यादि। तत् प्रतिज्ञातार्थस्य हेतुवचनं दुष्परिहरवादिति। अतिदेशो नाम यत् किश्चित्प्रकाश्यार्थमनुक्तार्थसाधनायैव. मन्यदपि प्रत्येतव्यमिति परिभाष्यते। यथा-"यश्चान्यदपि किश्चित् स्यादनुक्तमिह पूजितम् । पूर्ण तदपि वात्रेयः सदैवमनुमन्यते"। अर्थापत्तिर्नाम यदकीर्तितमिति मत्वा भापाद्यते सार्थापत्तिः । यथामतं बांधभोजननिषेधोऽस्त्यर्थाद दिवाभुञ्जीतेत्यापाद्यते। निर्णयो नाम विचारितस्यार्थस्य व्यवस्थापनम् यथा-चतुष्पदभेषजत्वादिविचारं कृत्वाभिधीयते। यदुक्तं पोदशकलं पूर्वाध्याये भेषजमुकं तद युक्तियुकमारोग्यायेति । प्रसङ्गो नाम पूर्वाभिहितस्यार्थस्य प्रकरणागतत्वात् पुनरभिधानम् । यथा
For Private and Personal Use Only

Page Navigation
1 ... 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601