Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1591
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२० चरक संहिता | [ उत्तरवस्तिसिद्धिः नाम तन्त्रयुक्तिः सा, यत् परमतमप्रतिषिध्योच्यते । यथा - तत्रातीन्द्रियं पुनर्मनः सत्त्वसंशकं चेत इत्याहुरेके । सुश्रुते च परममतप्रतिषिद्धमनुमतम् । यथान्यो ब्रूते सप्तरसा इति || || व्याख्यानमिति । व्याख्यानं नाम तन्त्रयुक्तिः सा, यदतिशयेन वर्णनम् । यथा - ततस्तु धातुभेदेन चतुर्व्विशतिकः स्मृतः इति । सुश्रुते च - तत्रातिशयोपवर्णनं व्याख्यानम् । यथेह पञ्चविंशतिकः पुरुषो व्याख्यायते । अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता |||| संशय इति । संशयो नाम तन्त्रयुक्तिः सा यदुभयहेतुदर्शनम् । यथा - इतदच्युताः पुनभविष्यामो न वेति संशयः, कस्मात् १ सन्ति क्षेत्रके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः सन्ति चापरे आगमप्रत्ययादेव पुनर्भवमिच्छ न्तीति । सुश्रुते च- उभयहेतुदर्शनं संशयः । यथा - तलहृदयाभिघातः प्राणहरः । पाणिपादच्छेदनममाणहरमिति || || अतीतावेक्षेति । अतीतावेक्षणं नाम तन्त्रयुक्तिः सा यत् पूर्व्वमुक्तं तदवेक्षणम् । यथा - चिकित्सितस्थाने ज्वरचिकित सितेऽभिहितम् । निदाने पूर्व्वमुद्दिष्टा या पृथक् च ज्वराकृतिः । संसर्गसन्निपातानां तया चोक्तं स्वलक्षणमिति । सुश्रुते च यत् पूर्व्वमुक्तं तदतिक्रान्तावेक्षणम् । यथा— चिकितसितेषु ब्रूयात् श्लोकस्थानं यदीरितमिति || || अनागतावेक्षेति । अनागतावेक्षणं नाम तन्त्रयुक्तिः सा यदेवं वक्ष्यतीत्यवेक्ष्यते । यथा - षविरेचनशतानीति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषद्यनुव्याख्यास्याम इति । सुश्र ते च - एवं वक्ष्यतीत्यना नागतावेक्षणम् । यथा श्लोकस्थाने ब्रूयात् चिकित्सिते वक्ष्यामीति ॥ स्वसा इति । स्वसंज्ञा नाम तन्त्रयुक्तिः सा, या न शास्त्रान्तरसामान्या संभा । 1 ― 1 वृद्धि गुरुसेन लाघवात् मलसंक्षयम् । मलायनानां बुध्येत सङ्गोत्सर्गादतीव च ।' केचित् तु प्रकरणानुपूर्व्वार्थाभिधानं विधानमाहुः । यथा-रसहधिरमांसमेदोऽस्थिमज्जशुक्राणामुत्पादः क्रमानुरोधेनाभिधानम् । अनुमतं नाम सह एकीयमनस्यानिवारणेनानुमननम् । यथा - गर्भशल्यं जरायु:प्रपातनं कर्म्म समानमित्यादेवकीयमतं प्रतिपाद्याप्रतिषेधादनुमन्यते । व्याख्यानं नाम यत् सर्व्वबुद्धिविषयं व्याक्रियते, यथा- 'प्रथमे मासि सम्मूर्च्छितः सर्व्वधातुकलुषीकृतः खेटभूतो भवत्यम्यकविग्रहः' इत्यादिनास्य वाक्यस्य विदितार्थस्य व्याकरणम्। संशयो नाम विशेषाकाङ्क्षावारितोभयविषयज्ञानम्, यथा- 'भातरं पितरचैके मन्यन्ते जन्मकारणम् । स्वभावं परनिर्माणमदृष्टापरे जनाः' इत्यादिनीतः संशयः । अतीतावेक्षणं नाम यदतीतानां पुनरवेक्षणम्, यथा-'ला कुटी तच शयनं ज्वरं संशमयत्यपि' इत्यस स्वेदाध्यायविहितकुटाद्यतीतकर्म्मावेक्ष्यते । अनागतावेक्षणं नाम यदनागतं विधिं प्रमाणीकृत्यार्थसाधनम्, यथा या तिकसर्पिष इत्याद्यनागतावेक्षणे नोच्यते । संज्ञा नाम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601