________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशोऽध्यायः ।
अथात उत्तरवस्तिसिद्धिं व्याख्यास्यामः, इतिह रमाह भगवानात्रेयः ॥ १ ॥
अथ खल्वातुरं वैद्यः संशुद्धं वमनादिभिः । दुर्बलञ्चाममन्दाग्निं मुक्तसन्धानबन्धनम् ॥ नि तानिलविण्मूत्र- कफपित्तं कृशाशयम् । शून्यदेहं प्रतीकारासहिष्णु प्रतिपालयेत् ॥ यथैव तरुणं पूर्ण तलपात्रं तथैव च । गोपाल इव दण्डी गाः सर्व्वस्मादपचारतः ॥ २ ॥
गङ्गाधरः – अथाध्यायोद्देशक्रमात् पारिशेष्याच्च उत्तरवस्तिमाह – अथात इत्यादि । पूच्चैवत् सर्व्वं व्याख्येयम् ॥ १ ॥
गङ्गाधरः—अथ खल्वित्यादि । वमनादिभिः संवृद्धमातुरं दुर्बलादिश्च बद्यः प्रतिपालयेत् । तत्र दृष्टान्तः यथवेत्यादि । यथा तरुणं तलपूर्ण पात्र रक्षयेत् तथा, एवं गोपालो यथा दण्डं गृहीला गा रक्षयेत्, तथा सर्व्वस्मादपचारात् निरुक्तमातुरं रक्षेत् ॥ २ ॥
चक्रपाणिः - पारिशेष्य देवोत्तरवस्तिसिद्धिरभिधीयते । उत्तराणां श्रेष्ठानां वस्तीनां सिद्धिरुत्तरवस्तिसिद्धिः । वक्ष्यमाणवस्तीनां विषयं मिथ्योपचारजन्याधिप्रशमं दर्शयितुं सम्यगुपचारमेव तावदाह - अथ खविति । वमनादिभिरिति वमनविरेचनयोः वक्ष्यमाणः सम्बन्धः सम्बध्यते, हेनायं क्रमः एतयोर्न भवति । मुखसन्धानबन्धनमिति मुवसन्धिबन्धनम् । कृशाशयमिति दोषशून्याशयम् । प्रतिकारासहिष्णुमित्युचै भष्यादिक्रियाक्षमं किंवा वमनादिप्रयोगासहिष्णुम् । परिपालयेत् सर्व्वस्मादपचारत इति सम्बन्धः । तरुणादिदृष्टान्ततयाभिधानं कस्यचित् किञ्चित् प्रसिद्ध भविष्यतीत्यभिप्रायेण ॥ १ ॥ २ ॥
For Private and Personal Use Only