________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श यायः ] सिद्धिस्थानम्।
३७६३ तत्र श्लोकः। फलकर्मवस्तिषु वरत्वनिश्चये वस्तयो गवादीनाम् । सततान्तराश्चोदिष्टाः फलमात्रायां हितञ्चैषाम् ॥ १७ ॥ इत्यनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने
फलमात्रासिद्धिर्नामैकादशोऽध्यायः॥ ११ ॥ गङ्गाधरः-अध्यायाथमाह-तत्र श्लोक इति। फलेत्यादि ॥१७॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि ॥ अग्निवेशकृते तन्त्र चरक-प्रतिसंस्कृते। सिद्धिस्थानेऽष्टमेप्राप्ते तस्मिन् हदबलेन तु। प्रतिसंस्कृत एवकादशेऽध्याये प्रयत्नतः। फलमात्रासिद्धाभिधे वैद्यगङ्गाधरेण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमे पुनः। स्कन्धं फलमात्रासिद्धि-जल्पाख्यैकादशी खियम्। शाखा समाप्ता
सदद्वद्या अस्याश्छायां श्रयन्तु व ॥११॥
चक्रपाणिः-संग्रहो व्यक्तः ॥ १७ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुददीपिकायां घरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां फलमानासिद्धिव्याख्या
नाम एकादशोऽध्यायः ॥११॥
For Private and Personal Use Only