________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६२
चरक-संहिता। [फलमात्रासिद्धिः सतैलसपिलवणैश्च पञ्चभिर्विमूर्छितं वस्तिमथ प्रयोजयेत् । निरूहितं धन्वरसेन भोजितं निकुम्भतेलेन ततोऽनुवासयेत् ॥१४॥ बलाश्वरानाफलविल्वचित्रकान् द्विपञ्चमूले कृतमालकोत्पले। यवान् कुलत्थांश्च पचेजलाढके रसः सपेष्यैस्तु कलिङ्गकादिभिः । सतलसर्पिगुडसैन्धवो हितः सदातुराणां बलवर्णवर्द्धनः । तथानुवासान् मधुकेन साधितान् फलेन विल्वेन शताहयापिवा॥१५ सजीवनीयस्तु रसोऽनुवासने निरूहणे वा लवणः शिशोर्हितः। न चान्यदाश्वङ्गबलाभिवर्धने निरूहवस्तिः शिशुवृद्धयोः परः ॥१६॥ पुनमवादान् महापश्चमूलान्तान् दधिमस्तुसंयुते गोमूत्रे विपाच्य काथं सतलसर्पिः पश्चभिलेवणश्च युक्तं सर्व खजेन विमूर्छितं वस्तिं प्रयोजयेत्। एवं निरूहितं. श्रोत्रियादिक समुद्धतवायु धन्वरसेन भोजयित्वा निकुम्भतलेन दन्तीसाधिततलेनानुवासयेत् ॥१४॥
गङ्गाधरः-बलेत्यादि। अश्वः अश्वगन्धा। बलादीन् जलाढ़के पक्वा स रसः कलिङ्गकादिभिः कल्कैदेशकैयुतः सतलादिर्वस्तिबलवर्णवर्द्धनः। एतेन निरुहं दत्त्वा येनानुवासयेत् तदाह-तथेत्यादि। मधुकेन साधितान् बिल्वफलेन साधितान् शताहया साधितान् वा प्रयोजयेत् ॥१५॥
गङ्गाधरः-सजीवनीयरिखत्यादि। सजीवनीयस्तु मांसरसोऽनुवासने शिशोहितो निरूहणे वा सजीवनीयो लवणो हितः। यूनां नृणां यथा निरूहवस्तिराशु शीघ्रमङ्गबलाभिवर्द्धनो हितः तथा शिशुद्धयोः परो निरूहवस्तिः श्रेष्ठः ॥१६॥
चक्रपाणिः-पुनर्नवेत्यादि निरूहः । शिवृता दन्ती। महान्ति मूलानि पञ्चेति विल्वादिपञ्चमूलानि। निकुम्भदैलेनेति निकुम्भकायकल सिद्धेन तैलेन। बलामिस्यादौ कलिङ्गकादिभिरिति कलिजकुष्ठमधुकपिप्पल्यादिभिरिहोक्तः। फलेन विल्वेन शताया पिबेविति तैलसयमानुवास. निकम् । सजीवनीयस्तु रसोऽनुवासन इति जीवनीयकषायसाधितः स्नेहोऽनुवासने कर्तव्यः । तथा निरूहण जीवनीयरसा मलवणः शिशोहितः। अनुवासनमपि जीवनीयसाधितं शिशोरेव हितम् । अनेन बालवृद्धयौगिकत्व वस्तेहतम् । परं कम्मति श्रष्टे फलकर्म ॥ १३-१६॥
For Private and Personal Use Only