Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1582
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११श अध्यायः } सिद्धिस्थानम् । अतिव्यवायशीलानां शुक्रमांसबलप्रदाः । सर्व्वरोगप्रशमनाः सर्व्वेष्वृतुषु यौगिकाः ॥ नारीणामप्रजातानां नराणाञ्चाप्यपत्यदाः । उभयार्थक दृष्टाः स्नेहवस्तिनिरूहयोः ॥ व्यायामो मथुनं मद्यं मध्वाशिशिरमम्बु च । सम्भोजनं रथक्षोभो वस्तिष्वेतेषु गर्हितम् ॥ २४ ॥ शिखिगोनद्द हंसाण्डैर्द क्षवदुवस्तयस्त्रयः । विंशतिर्विष्किरैस्त्रिंशत् प्रतुदेः प्रसहैर्नव ॥ विंशतिश्च तथा सप्त-विंशतिश्चाम्बुचारिभिः । नव मत्स्यादिभिश्चैव शिखिकल्पेन वस्तयः ॥ दश कर्कटकादश्च कूम्र्म्मकल्पेन वस्तयः । मृगैः सप्तदशैकोन- विंशतिर्विष्किरै देश ॥ आनूपैर्दच शिखिवद् भूशयैश्च चतुर्द्दश । एकोनत्रिंशदित्येते सह स्नेहः समासतः । प्रोक्ता विस्तरशो भिन्ना द्व े शते षोड़शोत्तरे || गङ्गाधरः- अत्र प्रमाणश्लोकानाह - इत्येत इत्यादि । स्नेहवस्तिनिरूहयो-मध्ये एते स्नेहवस्तय भयाथकराः । वाजीकरणकरा रसायनकराः । वस्तिषु निषिद्धमाह - व्यायाम इत्यादि । वस्तिष्वेतेषु रसायनेषु व्यायामादिकं गवित्तम् इति ॥ २४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३८११ गङ्गाधरः- अत्र वस्तीनुपसंहरति शिखीत्यादि । शिखिप्रभृतिवस्त्रियादयः पूर्व्वं स्फुटं व्याख्याताः । ते समासत एकोनत्रिंशत् वस्तयः सह स्नेहरुक्ताः, चक्रपाणि: - ये केचिदुभयार्थकरा हटा इति स्नेहवस्तिनिरूहयोरपि साध्यमर्थ स्नेहनं शोधन कुत इति भावः । यापनावस्तिषु वर्जनीयमाह - व्यायाम इत्यादि ॥ २४ ॥ चक्रपाणि: - शिविगोनर्देत्यादिना उक्तवस्तिसंग्रहं करोति । संग्रहार्थश्व एकोनत्रिंशदित्येते

Loading...

Page Navigation
1 ... 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601