Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1581
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८१० चरक-संहिता। (उत्तरवस्तिसिद्धिः सहचरपलशतमुदकद्रोणशते पक्त्वा द्रोणशेषेरसे पूते विदारीचुरसप्रस्थाभ्यामष्टगुणक्षीरं घृततलप्रस्थं बलामधुकमधूकचन्दनमधूलिकाशारिवामेदामहामेदाकाकोलीक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघनखशटीसहचरीसहस्रवीर्यावराङ्गलोधाणामक्षमात्रैद्विगुणशर्करैः कल्क साधयेत् । ब्रह्मघोषादिना विधिना तत् सिद्धं वस्तिं दद्यात्, एष सर्वरोगहरो रसायनो ललनानांश्रेष्ठोऽन्तःपुरचारिणीनाम् । क्षतक्षयवातपित्तवेदनाकासश्वासहरस्त्रिभागमाक्षिकोऽकालबलिपलितनुटु वर्णरूपबलमांसशुक्रवर्द्धनः। एते रसायनाः स्नेहवस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति ॥ २३ ॥ भवन्ति चात्र श्लोकाः। इत्येते वस्तयः स्नेहाश्चोक्ताःप्राणिषु संज्ञिताः। खस्थानामातुराणाञ्च वृद्धानाचाविरोधिनः ॥ कृखा स्थापयेत् । अथ सिद्धं तं स्नेहं ब्रह्मघोषादिना विधिना वस्तिमादद्यात्, तेन स्त्रीशत गच्छदित्याद्याशीः। अत्रानपाकी नीलझिण्टी ॥२२॥ गङ्गाधरः-सहचरेत्यादि। सहचरस्य पलशतं जल्द्रोणसते पत्वा द्रोणशेषे रसे पूते सति विदारीरसपस्थेनारसप्रस्थेन तथाष्टगुणक्षीरमष्टप्रस्थक्षीरं घृततलयोमिलिला प्रस्थं बलादीनामक्षमात्रकल्कद्विगुणशर्कररक्षद्वयमितशकरायुक्तः साधयेत्। मुद्रापाकेऽवताय्ये वस्त्रपूतं कुखा स्थापयेत्। ततो ब्रह्मघोषादिना विधिनानुवासनवस्तिं दद्यात् । एष इत्याद्याशीः। त्रिभागेत्यादि । स च स्नेहस्तृतीयभागमाक्षिकयुक्तो वस्तिरकालपलितनुत्। एत इत्यादि। एते शतावरीत्यादुवक्ता रसायनस्नेहवस्तयः सति विभवे शतकादयः कार्या वीय्येबलाधानाथेमिति ॥२३॥ चक्रपाणिः-सहचरपलशतमित्यादिकः स्नेहस्तृतीयः । सहस्रवीर्य्या दूर्वा, वराङ्गं अमरुत्वक् । पातपाकाश्चेत्या स्नेहापेक्षया शतगुणेन वा द्रवेण एकदैव पाकं मन्यते ॥ २३ ॥ ...... For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601