Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः ]
सिद्धिस्थानम् ।
३८०५
गोधान कुलमार्जारमूषिकशल्ल्कमांसानां दशपलान् भागान् सपञ्चमूलान् पर्यास पक्का शेषं तत् पयः पिप्पलीफलकल्कसैन्धवसौवलशर्करामधुघृततैलयुक्तो वस्तिबेल्यो रसायनः चीणक्षतसन्धानकर मथितोरस्करथगजहयवातबलाशक प्रवृत्त्युदावर्त्तवातशुक्र मूत्रवर्चः शुक्राणां हिततमश्च ॥ १७ ॥
कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषशुक्ल कुक्कुटहंसकुक्कुटाण्डरस घृतमधुशर्करा सैन्धवेत्तुरसमधुकात्मगुप्ताफलकल्कयुक्तो वस्तिवृद्धानामपि बलजननः । गोवृषवस्तवराहवृषणकर्कटकशशाण्ड सिद्ध चीरमुच्चटेचुरकात्मगुप्ता - मधुघृतयुक्तं किञ्चिल्लवणं वस्तिः । कर्कटकरसश्चटकाण्डरसयुक्तो समधुघृत
गङ्गाधरः - गोधेत्यादि । गोधादीनां पञ्चानां वृहत्पञ्चमूलानाञ्च मिलिला दशपलान् भागान् प्रत्येकमेककं पलं पयसि चतुर्गुणे पक्तत्वा पादशेषं पिप्पल्यादिककयुक्तः सैन्धवादियुक्तश्च वस्तिर्वत्यादिः ॥ १७ ॥
गङ्गाधरः - कूम्र्मेत्यादि । कूर्मः कर्कटकी मत्स्यः शिशुमारस्तिमिङ्गिलः । शुक्तिः शङ्खोद्रकुम्भीरचुलुकीमकरादय इत्येते वारिजा दश य उक्तास्तेषामन्यतमस्य पिशितरसे चतुर्गुणे सिद्ध पयः शिष्यं गोवृषादीनां रसेन युक्तं घृतादीक्षुरसान्तयुक्तं मधुकादिकल्कयुक्तं वस्ति दानामपि बलजननः । इति कूम्मकल्पेन दश । गोवृषेत्यादि । गोवृषादीनां वृषणककेटकाण्डशशाण्डरसः सिद्ध. पयः । उच्चटादीनां त्रयाणां कल्कयुक्तं मधुघृतयुक्तं किश्चित् सन्धवेन लवणितं गोवराहा इवेत्यादिनोस्तै रेकोनत्रिंशत् । अम्बुधराश्च हंसादयः सप्तविंशतिरुक्का पुते सप्तविंशतिः भवन्ति । रोहितादिभिर्मत्स्यैर्नव एवं पञ्चदशोत्तरं शतं भवन्ति । अक्षीर इति रोहितादिषु सम्बध्यते । गोधानकुलेत्यादिभिः षोड़शः ॥ १५–१७ ॥
..चक्रपाणिः -- कूम्र्मादीनामन्यतमेत्यादिकः सप्तदशः । अस कूर्म्मकर्कटादय एकादश पठिताः । त प्राक् कूम्र्म्मेण क्रियते कर्कटादिभिर्दश वस्तयो भवन्ति । प्रत्येकं गणनायां प्रति विंशतिः अतिदेशिका ज्ञेयाः । गोवृषवस्तादिरष्टादशः । गोवृषः पुरं वृषः । कर्कटादि रेकोनविंशतितमः । ४७७
For Private and Personal Use Only

Page Navigation
1 ... 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601