Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1572
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः सिद्धिस्थानम्। ३८०१ .. तद्वत् सहचरबलामूर्वामूलशारिवासिद्धेन पयसा। तथा वृहतीकण्टकारिकाशतावरोच्छिन्नरुहाभृतेन पयसा मधुकमदनपिप्पलीकल्कोकृतेन पूर्ववटु वस्तिः। तथा बलातिबलाविदारी. शालपर्णीपृश्निपर्णीवृहतोकण्टकारिकादर्भमूलकाश्मर्याक्ल्विफलसिद्धेन पयसा मधुकमदनकल्कीकृतेन मधुघृतसौवर्चलप्रयुक्तेन वस्तिः कासज्वरगुल्मप्नीहास्तिस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च ॥ ११॥ .. बलातिबलारानारग्बधमदनविल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानाञ्च जलद्रोणे सिद्धं निरूहप्रमाणं शेषकषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकरसाञ्जनप्रियङ्ग्यमानीकल्कीकृतं गुड़घृततैलक्षौद्रतीरमांस गङ्गाधर-तवदित्यादि । सहचरादीनां कल्कः सिद्धेन पयसा मधुकादिकल्कयुक्तेन पूर्ववद घृततलसन्धवमधुयुक्तो वस्तिस्तद्वत् सर्वेषां प्रसस्तो विशेषतो ललितादीनाम् । तथा वृहत्यादिकल्कः भृतेन पयसा मधुकादि. कल्कयुक्तेन पूर्ववद घृततलसन्धवमधुयुक्तेन वस्तिस्तवत् सर्वेषां प्रशस्तो विशेषतो ललितादीनाश्च। तथेत्यादि। बलादिकल्कसिद्धेन पयसा मधुकादिकल्कयुक्तेन मध्वादिषयुक्तेन वस्तिः कासज्वरादिक्लिष्टानां सद्यों बलजननः॥११॥ गङ्गाधरः-बलातिबलेत्यादि। बलादीनि द्विपञ्चमूलान्तानि पलिकानि। यवादीनां द्विद्विपमृत शुष्क मूलानाश्च द्विप्रमृतं जलद्रोणे चतुःषष्टिशरावे पत्त्वा चक्रपाणिः-शालिपर्णिकादिद्धितीयस्तद्वत् सहचरेत्यादिकस्तृतीयः। तथेति पूर्ववस्तिविधानेन वृहतीत्यादिकचतुर्थः। अत्र च वस्तौ फलश्रुतिसामान्येन इत्येते वस्तयः स्नेहाबोका इत्यादिना वक्ष्यमाणा फलश्रुधिज्ञ या। तथा बलातिबलाविदारीत्यादिका पञ्चमः। बलातिबलारास्नेस्यादिका षष्ठः । शुष्कमूलकानात्यन्त्र द्विप्रसृतमित्यनुवर्तते। निरूहप्रमाणं शेषं कषायमिति निरूहपुटकलययोग्यप्रमाणं कल्पयम् एवं पुटकतयादयः पञ्चकषायाः प्रसृताः स्थाप्या भविष्यन्ति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601