________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः सिद्धिस्थानम्।
३८०१ .. तद्वत् सहचरबलामूर्वामूलशारिवासिद्धेन पयसा। तथा वृहतीकण्टकारिकाशतावरोच्छिन्नरुहाभृतेन पयसा मधुकमदनपिप्पलीकल्कोकृतेन पूर्ववटु वस्तिः। तथा बलातिबलाविदारी. शालपर्णीपृश्निपर्णीवृहतोकण्टकारिकादर्भमूलकाश्मर्याक्ल्विफलसिद्धेन पयसा मधुकमदनकल्कीकृतेन मधुघृतसौवर्चलप्रयुक्तेन वस्तिः कासज्वरगुल्मप्नीहास्तिस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च ॥ ११॥ .. बलातिबलारानारग्बधमदनविल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानाञ्च जलद्रोणे सिद्धं निरूहप्रमाणं शेषकषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकरसाञ्जनप्रियङ्ग्यमानीकल्कीकृतं गुड़घृततैलक्षौद्रतीरमांस
गङ्गाधर-तवदित्यादि । सहचरादीनां कल्कः सिद्धेन पयसा मधुकादिकल्कयुक्तेन पूर्ववद घृततलसन्धवमधुयुक्तो वस्तिस्तद्वत् सर्वेषां प्रसस्तो विशेषतो ललितादीनाम् । तथा वृहत्यादिकल्कः भृतेन पयसा मधुकादि. कल्कयुक्तेन पूर्ववद घृततलसन्धवमधुयुक्तेन वस्तिस्तवत् सर्वेषां प्रशस्तो विशेषतो ललितादीनाश्च। तथेत्यादि। बलादिकल्कसिद्धेन पयसा मधुकादिकल्कयुक्तेन मध्वादिषयुक्तेन वस्तिः कासज्वरादिक्लिष्टानां सद्यों बलजननः॥११॥
गङ्गाधरः-बलातिबलेत्यादि। बलादीनि द्विपञ्चमूलान्तानि पलिकानि। यवादीनां द्विद्विपमृत शुष्क मूलानाश्च द्विप्रमृतं जलद्रोणे चतुःषष्टिशरावे पत्त्वा
चक्रपाणिः-शालिपर्णिकादिद्धितीयस्तद्वत् सहचरेत्यादिकस्तृतीयः। तथेति पूर्ववस्तिविधानेन वृहतीत्यादिकचतुर्थः। अत्र च वस्तौ फलश्रुतिसामान्येन इत्येते वस्तयः स्नेहाबोका इत्यादिना वक्ष्यमाणा फलश्रुधिज्ञ या। तथा बलातिबलाविदारीत्यादिका पञ्चमः। बलातिबलारास्नेस्यादिका षष्ठः । शुष्कमूलकानात्यन्त्र द्विप्रसृतमित्यनुवर्तते। निरूहप्रमाणं शेषं कषायमिति निरूहपुटकलययोग्यप्रमाणं कल्पयम् एवं पुटकतयादयः पञ्चकषायाः प्रसृताः स्थाप्या भविष्यन्ति
For Private and Personal Use Only