________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
३८००
चरक-संहिता। उत्तरवस्तिसिद्धिः जाङ्गलरसतुल्यो मधुयुतः ® शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्कल्कीकृतः ससैन्धवः सुखोष्णो वस्तिः शुक्रमांसाग्निबलजननः क्षीणक्षतकासगुल्मविषमज्वरबध्नकुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छामृगजोविसर्प-प्रवाहिकाकास-शिरोजानूरुजका वस्तिग्रहण्यश्मय॑न्मादार्शः-प्रमेहाध्मान-वातरक्तपित्तश्लेष्मव्याधिहरः सद्योबलजननो रसायनश्चेति ॥६॥
शालपर्णी-पृश्निपर्णी-वृहती-कण्टकारिका-श्वदंष्ट्राः पलिकाः खण्डशः क्लताः क्षीराढ़के पचेत्। पादावशेषकषाययुतं शतकुसुमादिकल्कितं घृततैलसैन्धवमधुयुतं सुखोष्णञ्च निरूहमेकं द्वौ त्रीन् वा दद्यात्। सव्वेषामेष प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतोरसां चिरार्शसानामपत्यकामानाच॥१० शेषतु शरावावशेषो रसः क्षीरस्याष्टशरावयुक्तः पुनः पक्तव्यः क्षीरावशेषः काय्यः। स च तुल्यजाङ्गलमांसरसयुक्तः मधुयुतः। शतपुष्पामधुकादीनि कल्कीकृत्य तत्र दत्त्वा सैन्धवश्वानुरूपं दत्त्वा मथितः सुखोष्णो वस्तिः। शुक्रादिननन इत्याघाशीः॥९॥
गङ्गाधरः-शालपर्णीत्यादि। शालपादीनि पञ्च प्रत्येकं पलिकानि खण्डशः कृता क्षीरादके पचेत् । पादशेषकषाययुतं पूर्वोक्तशतकुसुमादिकल्कयुक्तं घृतादियुक्त सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्। सर्वेषामेष निरूहः प्रशस्तः स्यात् विशेषतो ललितसुकुमारादीनां शस्तः॥१०॥
चक्रपाणिः-मुस्तेत्यादौ। खण्डशः लसानीति खण्डं खण्ड क्लतानि। जाङ्गलरसमधुघृतः यथोक्तक्षीरकृतकाथइत्यादिकजांगलरस इत्यर्थः। तुल्यं मधुना घृतं यस्मिन् स तुल्यमधुतः। एतेन पूर्व वस्तौ यथानियमितस्नेहमानेन यावद् घृतं देयं भवति तावन्मानं मध्वप्यस देयम् । अस्मिन् पूर्वोक्तवस्तिमानविभागेनैव वस्तिः कल्पयितव्यः। भक्ष क्षीरं कषायस्थाने भवति । शतकुसुमा शतपुष्पा। ससैन्धवमितीषत्सैन्धवम् ॥९ ... • जामकरसतुल्यमधुघृत इति चक्रसम्मतः पाठः।
For Private and Personal Use Only