________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२शअभ्यायाम
"
१२श अध्याया] . सिद्धिस्थानम् ।
३७६६ च्छईनं रूतः स्वेदो धूमपानलबनपाचनदीपनौषधावचारणञ्च । विषमाहिताशनजानां यथास्वं दोषक्रिया। दिवास्वप्नजानां धूमपानलबनवमनशिरोविरेचन व्यायाम-रूक्षाशनादिदीपनीयोषधोपयोगः प्रहर्षणोन्मईनपरिषेचनादिश्च श्लेष्महरः सों विधिः। मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगस्तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनावस्तयोऽनुवासनश्च, मूत्रवैकृतवस्तिशूलेषु चोत्तरवस्तिः विदारीगन्धादिगणजीवनीयगणक्षीरसिद्धतैलं स्याद् यापनाश्च वस्तयः सर्वकालं देयास्तानुपदेक्ष्यामः॥८॥ .. मुस्तोशीरबलारग्बधराना-मञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाविभीतकगुडूचीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः कप्तानि मदनफलानि चाष्टौ प्रक्षाल्य जलादके निक्काथ्य पादशेषो रसः क्षीरदिप्रस्थयुक्तः पुनः शृतः क्षीरावशेषः कर्म निदानवजनश्च। अजीणेत्यादि । अजीर्णादिजानां निरवशेषच्छईनादि दीपनभेषजश्च । विषमेत्यादि । विषमाद्यशनजानां दोषजानां व्याधीनां यथास्त्रदोषक्रिया। दिवास्वमजानामित्यादि। दिवास्वमजानां व्याधीनां धूमपानादुरपयोगः प्रहषेणादिश्च श्लेष्महरः सो विधिः। मथुनजानामित्यादि। अतिव्यवायात् क्षयजानां जीवनीयसाधितक्षीरादयः, तान्, यापनावस्तीनुपदेक्ष्यामः॥८॥
गङ्गाधरः-मुस्तेत्यादि । मुस्तादीनि वृहत्पश्चमूलान्तानि प्रत्येकं पलिकानि खण्डशः कृतानि मदनफलस्याष्टौ पलानि कुट्टयिखा जलाढके निकाथ्य पाद। चक्रपाणि:-तेषां सिद्धिरिति तेषामुक्तविकाराणां साधनं भेषजमित्यर्थः। निरवशेषतछाईनमिति अजीर्णावस्य निरवशेषतः छईनम् । मूखवैकृतेत्यादि मैथुनान्मूतवैकृतादि भवति । तदा विदारिगन्धादिजीवनीयगणाभ्यां काथकल्कीकृताभ्यां सक्षीरं तैलं साधयित्वोत्तरवरिसर्दयः । यापनाश्च वस्तयः सर्वकालं देया इत्यनेन पूर्वनिरूहाणामसार्वकालिकरवं दर्शयति। एतेषान सर्वस्मिन् काले दानमविरुदम् । आयुषो यापनं दीर्घकालानुवर्तनं कुर्वन्तीति थापना वस्तयः ॥ ८॥
For Private and Personal Use Only