________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७९६
चरक-संहिता। [उत्तरवस्तिसिद्धि एयशोविकारादयः। दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छद्द रङ्गमईहृत्स्तम्भजाड्यतन्द्रानिद्राप्रसङ्गप्रन्थिजन्म-दौळल्यरक्ताक्षिता-प्रलेपाः भवन्ति। व्यवायादाशुबलनाशोरुसाद-वस्तिशिरोमेदगुदवङ्क्षणोरुस्तम्भ-वृषणजानु । जापादशूल-हृदयनेत्रपीडादशैथिल्य-शुक्रमार्गशोणितागमनकासश्वासरक्तनिष्ठीवन-बलखरावसाद-कटीदौर्बल्यैकाङ्गसर्वाङ्गरोग-मुष्कश्वयथुवातवर्थोमूत्रसङ्ग शुक्रविसर्ग-जाड्यवेपथुवाधिर्यविषादयश्च स्युः। अत्र पाट्यत इव गुदं ताड्यत इव मेढ़मवसीदति गमने वेपते हृदयं पीड्यन्तै सन्धयस्तमः प्रविश्यत इव चेत्येवमष्टाभिरेवैभिरपचाररेते प्रादुर्भवन्त्युपद्रवाः ॥७॥ . तेषां सिद्धिरुच्चैर्भाष्यातिभाष्यजानामभ्यगस्वेदोपनाहधूमपाननस्योपरिभक्तस्नेहपानरसक्षीरादिभिर्वातहरः सर्वविधिमौनश्च। रथक्षोभातिचंक्रमणात्यासनजानां स्नेहस्वेदादि वातहरं कर्म सर्व निदानवर्जितञ्च । अजीर्णाध्यशनजानां निरवशेषभोज्यपदेन विषमाशनमपि लक्ष्यते, तेन दोषजा अनन्नाभिलाषादयः स्युः। दिवास्वप्नादित्यादि । दिवास्वप्नात् श्लेष्मजा अरोचकादयः स्युः । व्यवायादि. त्यादि। अतिव्यवायात् शुक्रक्षयजा आशु बलनाशादयः स्युरिति । अत्राति व्यवायात् क्षयजेषु पाट्यत इव गुदम्, मेढ़ताड्यत इव, गमनेऽवसीदति, हृदयं वेपते, सन्धयः पीड्यन्ते, तमः प्रविश्यत इवेत्येतरष्टाभिरपचाररुपद्रवा एते प्रादुर्भवन्तीति ॥७॥
गङ्गाधरः तेषां सिद्धिरित्यादि । उच्चर्भाष्यादिजानामभ्यङ्गादिभिः सों वातहरो विधिो नश्च सिद्धिः। रथक्षोभादीनां स्नेहस्वेदादि सर्च वातहरं विकारकत स्वाध्यशनस्यासूषितस्योपादानम् । एवं विषमाहिताशनजविकारसमानविकारकारिविषमाशमस्याप्यसूक्षितस्योपादानम् । भवकुष्यत इव छियत इव ॥ ६ ॥ ७॥ ......
For Private and Personal Use Only