Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शध्यायः
सिद्धिस्थानम् ।
३७८७. कफपित्तनिवहणं वरं स च धामार्गवमित्यमन्यत। तदमन्यत वातलं पुनर्वडिशो म्लानिकरं बलापहम् ॥ कुटजं प्रशशंस चोत्तमं न बलन कफपित्तहारि च। अथ विजलमूर्द्ध भागिकं पवनदोभि च काप्य आह तत् ॥ कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति। तदसाध्विति तत्र शौनक कटुकञ्चापि बलतमित्यपि ॥ इति तद्ववचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् । प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्॥३॥ फलदोषगुणान् सरखती प्रति सधैरपि सम्यगीरिता । न हि किञ्चिददोषनिर्गणं गुणभूयिष्ठमतो विचिन्त्यते ॥४॥ इह कुष्ठहिता खरागरी हितमिक्ष्वाकु तु देह उत्तमम् । कुटजस्य फलं हृदामये प्रवरं कोठफलश्च पाण्डुषु॥ उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च।
मधुरं सकषायतिक्तकं तदरुक्षं सकटूषणविजलम् ॥ गङ्गाधरः तत्राह-कफपित्तेत्यादि। जीमूतकफलं फलेषु वर शौनक आह । इतीत्यादि। तदवचनानि तेषां शौनकादीनां वचनानि ॥३॥ ...... गङ्गाधरः-इदं किमब्रवीत् तदाह-फलदोषेत्यादि। (फलेषु दोषान्तरं गुणान्तरन्वति अतिशयं प्रति सचभगवद्भिरति साम्ये भाषितम् ।) कस्मात् १ न होत्यादि। हि यस्मात् किश्चिदपि द्रव्यं न निदोषं निर्गुणं वा वर्तते । अतो गुणभुयिष्ठं विचिन्त्यते॥४॥
पसिना दोषहारकम् । कृतवेधनमित्यादौ आशु कफपित्तं हरेदिति योज्यम् । इह वस्तिविवादका इत्यनेन जीमूतकादीनां गुणदोषाश्च इथिता भवन्तीति तात्पर्य ज्ञेयम् । प्रशशंसेति फलेषु जीसूतकादिषु फलदोषान् लक्ष्यीकृत्य ॥३॥
चापाणिः-सरस्वतीति वाक् । भदोषनिर्गुणमिति दोषवदेव गुणवदेव वा न किञ्चिदित्यर्थः । तेनासत्यपि स्तोके दोषसम्वन्धे यद् गुणभूयिष्ठं तदिह रोगप्रशमप्रयोगेषु विज्ञेयम् । सर्वगदाविरोधीति
For Private and Personal Use Only

Page Navigation
1 ... 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601