Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1474 // ६.षष्ठमध्ययन प्रत्याख्यान:, सूत्रम् 52(53) सामायिकव्रतविधिः। सर्वविरतिवादी चुक्कइत्ति भ्रश्यति देशविरतिं सर्वविरतिंच प्रत्यक्षमृषावादित्वादित्यभिप्रायः। पर्याप्तं प्रसङ्गेन प्रकृतं प्रस्तुमः। इदमपिच शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'सामाइयस्स समणों' (गाहा),सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा- मनोदुष्प्रणिधानम्, प्रणिधानं- प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानम्, कृतसामायिकस्य गृहसत्केतिकर्त्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं चसामाइयंति (तु) कातुं घरचिन्तं जो तु चिंतये सङ्घो। अट्टवसट्टमुवगतो निरत्थयं तस्स सामइयं॥१॥वाग्दुष्प्रणिधानं कृतसामायिकस्या-8 सभ्यनिष्ठुरसावधवाक्प्रयोग इति, उक्तं च-कडसामइओ पुव्वं बुद्धीए पेहितूण भासेज्जा / सइ णिरवज्जं वयणं अण्णह सामाइयं ण भवे ॥२॥कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्त च-अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो। हिंसाभावेविण सो कडसामइओ पमादाओ॥१॥सामायिकस्य स्मृत्यकरणंसामायिकस्य सम्बन्धिनी या स्मरणा स्मृति:- उपयोगलक्षणा तस्या अकरणं- अनासेवनमिति, एतदुक्तं भवति- प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तंच-ण सरइ पमादजुत्तो जो सामइयं कदा तु कातव्वं / कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥१॥सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणम्, अनवस्थितमल्पकालं वा करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्त 0 सामायिक (तु) कृत्वा गृहचिन्तां (कार्य) यस्तु चिन्तयेच्छ्राद्धः / आर्त्तवशार्त्तमुपगतो निरर्थकं तस्य सामायिकम्॥ 1 // ॐ कृतसामायिकः पूर्वं बुझ्या प्रेक्ष्या भाषेत / सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥१॥अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः / हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् // 1 // Oन स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं / कृतमकृतं वा तस्य हु कृतमपि विफलं तकत् ज्ञेयम् // 1 // // 1474 //

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198