Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः |1594-96 आश्रवद्वारपिधानादि मोक्षान्तं फलम्। // 1505 // स्पृष्टं- प्रत्याख्यानग्रहणकाले विधिना प्राप्तं पालितं चैव- पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं- गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं- पूर्णेऽपिकालावधौ किञ्चित्कालावस्थानेन कीर्तितं- भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चरणेन आराधितं- तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणंतस्माद्ईदृशिप्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्न कार्य इतिगाथार्थः ॥१५९३॥साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाह नि०- पञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाई। आसववुच्छेएणं तण्हावुच्छेअणं होई // 1594 // नि०- तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं / अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं // 1595 // नि०- तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु / तत्तो केवलनाणं तओ अमुक्खो सयासुक्खो॥१५९६ // प्रत्याख्याने कृते- सम्यग्निवृत्तौ कृतायां किं?- आश्रवद्वाराणि भवन्ति पिहितानि- तद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं? तृड्व्यवच्छेदनं भवतितद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः॥१५९४ // तइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च अतुल:- अनन्यसदृशः उपशमो- मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणाम्, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः- अनन्यसदृशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं- उक्तलक्षणं भवति-शुद्धंजायते निष्कलङ्कमिति गाथार्थः॥१५९५॥ततःप्रत्याख्यानाच्छुद्धाच्चारित्रधर्मःस्फुरतीति वाक्यशेषः, कर्मविवेकःकर्मनिर्जरा ततः- चारित्रधर्मात्, ततश्चेति द्विराय॑ते ततश्च- तस्माच्च कर्मविवेकात् अपूर्व मिति क्रमेणापूर्वकरणं भवति, // 1505 //

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198