Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 196
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1529 // प्राप्तिः सञ्जायते (यतो) यावज्जीवाद्यखिलवस्तुपरिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहि ६.षष्ठमध्ययनं कामुष्मिकफलप्राप्तिकारणमिति स्थितं इति जो उवदेसो सोणओणाम त्ति इति-एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्या- प्रत्याख्यान:, नियुक्तिः पनपरः स नयो नाम ज्ञाननय इत्यर्थः / अयंच नामादौ षड्डिधप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वा-2 1622-23 दस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः / उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, नयाः / तदर्शनं चेदं- क्रियैव प्रधानं ऐहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये गाथामाह- णायम्मि गेण्हितवे इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदृश्यते, तथा चान्यैरप्युक्तं- क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् // 1 // तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितम्, यत उक्तं- चेइयकुलगणसंघे , आयरियाणं च पवयण सुए य। सव्वेसुवि तेण कयं तवसंजममुज्जमतेणं॥१॥ इतश्चैतदेवमङ्गीकर्तव्यं- यस्मात् तीर्थकरगणधरैः / / क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चागमः-सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि॥ 1 // दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः। एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादहतोऽपि भगवतः // 1529 // 0 चैत्यकुलगणसङ्गे आचार्येषु च प्रवचने श्रुते च। सर्वेष्वपि तेन कृतं तपः संयमयोरुद्यच्छता॥ 1 // 0 सुबह्लपि श्रुतमधीतं किं करिष्यति चरणविप्रहीणस्य। अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 //

Loading...

Page Navigation
1 ... 194 195 196 197 198