Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1528 // णातम्मि गेण्हितव्वे गाहा व्याख्या-ज्ञाते-सम्यक्परिच्छिन्नेगेण्हितव्वे ति ग्रहीतव्ये उपादेये 'अगिण्हितव्वंमि'त्ति अग्रहीतव्ये ६.षष्ठमध्ययनं अनुपादेये, हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोख़तत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकार प्रत्याख्यान:, नियुक्तिः स्त्ववधारणार्थः, तस्यैव च व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते 1622-23 'अत्थंमि'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीय- नया:। स्तृणादिः आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरूपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे / यतितव्यमेव इति- ऐहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः / इत्थं चैतदङ्गीकर्तव्यम्, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तं-विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥तथाऽऽमुष्मिकफलप्राप्त्यर्थिना हि ज्ञान एव यतितव्यम्, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं- पढमंणाणं ततो दया, एवं चिट्ठति सव्वसंजते / अण्णाणी किं काहिति किं वा णाहिति छेयपावयं? // १॥इतश्चैतदेवमङ्गीकर्तव्यं- यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः- गीतत्थो / य विहारो बिदितो गीतत्थमीसितो भणितो। एत्तो ततियविहारो णाणुण्णातो जिणवरेहिं॥१॥न यस्मादन्धेनान्धः समाकृष्यमाणः | सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः / एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वंतस्यैव विज्ञेयम्, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपिन तावदपवर्ग // 1528 // प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा॥ 1 // 0 गीतार्थश्च विहारो द्वितीयो गीतार्थनिश्रितो भणितः। इतस्तृतीयविहारो नानुज्ञातो जिनवरेः॥१॥

Page Navigation
1 ... 193 194 195 196 197 198