Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक ६.षष्ठमध्ययन प्रत्याख्यान:, नियुक्तिः 1620 प्रत्याख्यानस्य फलम्। वृत्तियुतम् भाग-४ ||1526 // चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसितो णिव्विसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णता सागरपोतो तत्थ गतो तं द₹ण उवाएण परियणं पुच्छति- कस्स एस?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, ता लेहं दाउंघरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुव्वति, सागरपोतधूता विसा णाम कण्णा तीए अजणियवावडाए दिट्ठो, पितुमुद्दमद्दितं लेहं दटुं वाएति- एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अणुस्सारफुसणं कण्णगदाणं, पुणोवि मुद्देति, णगरं पविट्ठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघरअच्चणियविसज्जणं, सागरपुत्तमरणंसोतुंसागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगोघरसामी कतो, भोगसमिद्धी जाता, अण्णया पव्वण्हे मंगलिएहिं पुरतोसे उग्गीयं-'अणुपुंखमावयंतावि अणत्थ तस्स बहुगुणा होति / सुहदुक्खकच्छपुडतो जस्स कतंतो वहइ पक्खं // 1 // ' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिण्णि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सव्वं रणो सिटुं, तुटुंण रण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्ठाणं देवलोगगमणं, एवमादि परलोए। - चाण्डालेभ्योऽर्पितः, तैर्दूर नीत्वाऽङ्गुलिं छित्त्वा भापितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन (गोष्ठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्ट्वोपायेन परिजनं पृच्छति- कस्यैषः?, कथितमनाथ इति इहागतः, अयं स इति, ततो लेखं दत्त्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहिः परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानाम्नी कन्या, तयाऽर्चनिकाव्यापृतया दृष्टः, पितृमुद्रामुद्रितं लेखं दृष्ट्वा वाचयति, एतस्मै दारकाय अधौताम्रक्षितपादाय विषं दातव्यम्, अनुस्वारस्फेटनम्, कन्यादानम्, पुनरपि मुद्रयति, नगरं प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहाचनिकायै विसर्जनम्, सागरपुत्रमरणं श्रुत्वा सागरपोतः हृदयस्फोटनेन मृतः राज्ञा दामन्नको गृहस्वामी कृतः, भोगसमृद्धिर्जाता, अन्यदा च पर्वाहनि माङ्गलिकैः पुरतस्तस्योद्गीतं- श्रेण्या आपतन्तोऽप्यनस्तस्य बहुगुणा भवन्ति। सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षम् // 1 // श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, राज्ञा श्रुतम्, पृष्टेन सर्व शिष्टं राज्ञे, तुष्टेन राज्ञा श्रेष्ठी स्थापितः, बोधिलाभः, पुनर्धर्मानुष्ठानं देवलोकगमनम्, एवमादि परलोके। // 1526 //

Page Navigation
1 ... 191 192 193 194 195 196 197 198