Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 151
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1484 // पालनीयानि, तथाऽभिग्रहाः- कृतलोचघृतप्रदानादयः शुद्धा- भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो / ६.षष्ठमध्ययनं विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमाः- पूर्वोक्ताः सणवयसामाइय इत्यादिना ग्रन्थेन, आदिशब्दादनित्यादि- प्रत्याख्यान:, सूत्रम् भावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता पालनीयेत्यध्याहारः, तत्रैव पश्चिमैवा-2 56(57) पश्चिमा मरणं-प्राणत्यागलक्षणम्, इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथाऽपिन तद्गृह्यते, किंतर्हि?, सर्वायुष्कक्षय-8 अणुव्रतकाल: सम्यक्त्वलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच् (पूर्वपदात्) इति ठञ् (पा०४-४-६४) संलिख्यतेऽनया प्रतिमाभेदाः। शरीरकषायादीति संलेखना- तपोविशेषलक्षणा तस्याः जोषणं- सेवनं तस्याराधना- अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः। एत्थ सामाचारी- आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति,ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारसमणेण होतव्वंति विभासा। आह उक्तं-'अपश्चिमामारणान्तिकी संलेखनाझोषणाऽऽराधना'ऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति तानुपदर्शयन्नाहइमीए समणोवासएणं० अस्या- अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा- इहलोकाशंसाप्रयोगः, इहलोको- मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः ॐ श्रेष्ठी स्याममात्यो वेति, एवंपरलोकाशंसाप्रयोगः परलोके-देवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणंतत्राभिलाषप्रयोग:- यदिबहुकालं जीवेयमिति, इयंच वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणा0 अत्र सामाचारी- आसेवितगृहिधर्मेण किल श्रावकेन पश्चान्निष्क्रान्तव्यम्, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यम्, विभाषा। // 1484 //

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198