Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-४ // 1502 // ६.षष्ठमध्ययनं प्रत्याख्यानः, नियुक्तिः 1587-88 आहारभेदव्युत्पत्ती। तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः। चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्डिधा॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि- सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिम स्वादिमम्, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति / अधुना पदार्थ उच्यते- तत्र अश् भोजने इत्यस्य ल्युडन्तस्य अश्यत इत्यशनं भवति, तथा पा पाने इत्यस्य पीयत इति पानमिति, खाह भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिम भवति, एवं स्वद स्वर्द आस्वादने इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, अन्यत्रे ति परिवर्जनार्थं यथा अन्यत्र / द्रोणभीष्माभ्यां, सर्वे योधाः पराङ्गखा इति, तथा आभोगनमाभोगः न आभोगोऽनाभोगः, अत्यन्तविस्मृतिरित्यर्थः, तेन, अनाभोगमुक्त्वेत्यर्थः, तथा सहसाकरणंसहसाकार:- अतिप्रवृत्तियोगादनिवर्त्तनमित्यर्थः, तेन तंमुक्त्वा-व्युत्सृजतीत्यर्थः / एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति क्वचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने च नियुक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः / अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाह नि०-असणं पाणगंचेव,खाइमं साइमंतहा। एसो आहारविही, चउव्विहो होइ नायव्वो॥१५८७ // नि०- आसुंखुहं समेई, असणं पाणाणुवग्गहे पाणं।खे माइखाइमंति य, साएइ गुणे तओसाई॥१५८८ // अशनं- मण्डकौदनादि, पानं चैव- द्राक्षापानादि, खादिम- फलादि तथा स्वादिम- गुडताम्बूलपूगफलादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः॥१५८७॥साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह- आशु-शीघ्रं क्षुधां- बुभुक्षां शमयतीत्यशनम्, तथा प्राणानां- इन्द्रियादिलक्षणानां उपग्रहे- उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, // 1502 //

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198