Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1480 // ६.षष्ठमध्ययनं | प्रत्याख्यानः, सूत्रम् 55(56) अतिथिसंविभागव्रतविधिः। न्यायागतानां प्रतिषेधमाह, कल्पनीयानामुद्मादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमहा, अन्नपानादीनां द्रव्याणाम्, आदिग्रहणाद्वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, देशकालश्रद्धासत्कारक्रमयुक्तं तत्र नानाव्रीहिकोद्रवकङ्गगोधूमादिनिष्पत्तिभाग् देशः सुभिक्षदुर्भिक्षादिः कालः विशुद्धश्चित्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या प्रदानंक्रमः, एभिर्देशादिभिर्युक्तं-समन्वितम्, अनेनापि विपक्षव्यवच्छेदमाह, परया प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह- आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहिआत्मपरानुग्रहपरा एव यतयः संयतामूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो दानमिति सूत्राक्षरार्थः॥ एत्थ सामाचारी-सावगेण पोसधं पारेंतेण णियमा साधूणमदातुं ण पारेयव्वं, अन्नदा पुण अनियमो- दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुव्वं साधूणं दातुं पच्छा पारेतव्वं, कधं?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं णिमंतेति, भिक्खं गेण्हधत्ति, साधूण वा पडिवत्ती?, ताधे अण्णो पडलं अण्णो मुहणंतयं अण्णो भाणं पडिलेहेति, मा अंतराइयदोसा ठविंतगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अस्थि णमोक्कारसहिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तंवहितव्वयं होति, जति घणं लगेजा ताधे गेज्झति संचिक्खाविज्जति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो Oअत्र सामाचारी- श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽदत्त्वा न पारयितव्यं अन्यदा पुनरनियमः दत्त्वा वा पारयति पारयित्वा वा ददातीति, तस्मात् पूर्व साधुभ्यो दत्त्वा पारयितव्यम्, कथं?, यदा देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षां गृह्णीतेति, साधूनां का प्रतिपत्तिः?-8 तदाऽन्यः पटलं अन्यो मुखानन्तकं अन्यो भाजनं प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषाश्च, स यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति नमस्कारसहितस्तदा गृह्यतेऽथ च नास्ति न गृह्यते तद्वोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संरक्ष्यते, यो वोद्धाटपौरुष्यां पारयति पारणवानन्यो // 1480 //

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198