Book Title: Avashyak Sutram Part 04
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1473 // 52(53) सामायिक च व्याचक्षते- साधुः सुरगतौ मौक्षे च, श्रावकस्तु चतसृष्वपि / तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य ६.षष्ठमध्ययनं सज्वलनापेक्षया चतुस्त्रिव्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् / प्रत्याख्यान:, सूत्रम् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते,एते चाविरतस्य विज्ञेया इति,यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य ।तथा बन्धश्च भेदकः,साधुर्मूलप्रकृत्यपेक्षया व्रतविधिः। अष्टविधबन्धको वा सप्तविधबन्धको वा षड्डिधबन्धको वा एकविधबन्धको वा, उक्तं च-सत्तविधबंधगा हुति पाणिणो आउवज्जगाणं तु। तह सुहुमसंपरागा छव्विहबंधा विणिद्दिट्ठा // 1 // मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा॥२॥ ते पुण दुसमयठितीयस्स बंधगा ण पुण संपरागस्स। सेलेसीपडिवण्णा अबंधगा होति विण्णेया॥३॥ श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा। तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति / तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः 2 प्रतिपद्यत इति / तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किंच- इतरश्चसर्वशब्द न प्रयुङक्ते,मा भूद्देशविरतेरप्यभाव इति, आह च-सामाइयंमि उकए सव्वंति भाणिऊणं गाहा, सर्वमित्यभिधाय-सर्वसावा योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य सर्वा निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः // 1473 // 0 सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु। तथा सूक्ष्मसंपरायाः षड्डिधबन्धा विनिर्दिष्टाः॥ 1 // मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोही केवलिन एकविधबन्धकाः॥ 2 // ते पुनर्बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य / शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया॥३।। 8

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198