________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-४ // 1473 // 52(53) सामायिक च व्याचक्षते- साधुः सुरगतौ मौक्षे च, श्रावकस्तु चतसृष्वपि / तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य ६.षष्ठमध्ययनं सज्वलनापेक्षया चतुस्त्रिव्येककषायोदयवानकषायोऽपि भवति छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् / प्रत्याख्यान:, सूत्रम् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायवांस्तदाऽनन्तानुबन्धवर्जा गृह्यन्ते,एते चाविरतस्य विज्ञेया इति,यदा त्वष्टकषायोदयवान् तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य ।तथा बन्धश्च भेदकः,साधुर्मूलप्रकृत्यपेक्षया व्रतविधिः। अष्टविधबन्धको वा सप्तविधबन्धको वा षड्डिधबन्धको वा एकविधबन्धको वा, उक्तं च-सत्तविधबंधगा हुति पाणिणो आउवज्जगाणं तु। तह सुहुमसंपरागा छव्विहबंधा विणिद्दिट्ठा // 1 // मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया। उवसंतखीणमोहा केवलिणो एगविधबंधा॥२॥ ते पुण दुसमयठितीयस्स बंधगा ण पुण संपरागस्स। सेलेसीपडिवण्णा अबंधगा होति विण्णेया॥३॥ श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा। तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति / तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः 2 प्रतिपद्यत इति / तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा, किंच- इतरश्चसर्वशब्द न प्रयुङक्ते,मा भूद्देशविरतेरप्यभाव इति, आह च-सामाइयंमि उकए सव्वंति भाणिऊणं गाहा, सर्वमित्यभिधाय-सर्वसावा योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य सर्वा निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः // 1473 // 0 सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु। तथा सूक्ष्मसंपरायाः षड्डिधबन्धा विनिर्दिष्टाः॥ 1 // मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः। उपशान्तक्षीणमोही केवलिन एकविधबन्धकाः॥ 2 // ते पुनर्बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य / शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया॥३।। 8