Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 579
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः स्पष्टम् । इह न्यासापहारे पुरोहितकथा नमस्कारनिर्युक्तावुक्ता । मृषावादपरिहारे कथा - कोकणः श्रावकः कोऽपि, पुंसा केनाप्यभण्यत । नश्यन्तं प्रहरार्वतमेतं तेनाऽऽहतो मृतः ।। घातकं करणे नीत्वाऽकथयत्तुरगाधिपः । पृष्टः कारणिकः सोऽथ, साक्षीकस्तेऽत्र सोऽवदत् ।२। पुत्रोऽस्यैव स पृष्टोऽवक्, सत्यमेतत्ततः स तैः । सत्कृत्याऽभ्यर्च्य निर्दोषो, मुक्तो निर्धाटितः परः ।३। एष सत्यवादे गुणः । 'सहसाभ्याख्यानं' अविभाव्य चौरोऽयमित्यालदानम् । 'रहोऽभ्याख्यानं' रहः स्थितान् कानप्यालोक्य एते राजविरुद्ध मन्त्रयन्तीति प्रकाशनम् । 'स्वदारमन्त्रभेदः' दारैः मित्रैर्वा विश्रब्धैः प्रच्छन्नं कथितमन्यत्र प्रकाशयत: । अत्रोदाहरणं - मथुरायाः पुरः कश्चिद्, दिग्यात्रायां वणिग् ययौ । तत्रानायाति तद्भार्या, वर्षे द्वादशमे ततः ।। घटिताऽन्येन सार्द्ध सा, स च रात्री समागतः । प्रविष्टः कर्पटिर्भूत्वा, तदासीत्तत्र चोत्सवः ।। खाद्यकाचं लाभनाय, सा तदा तमवाहयत् । विश्वस्ता तेन पृष्टा च, स्ववृत्तान्तं रहोऽभ्यधात् ।३। सोऽज्ञातचर्यया भूयो, गत्वाऽऽगात्परया श्रिया । मिलितः स्वजनः सार्द्धमथाऽन्यव्यपदेशतः ।४। तत्प्रियावृत्तमाचख्यो, तच्छ्रुत्वा ज्ञाततद्विधिः । दन्तैनि:पीड्य जिह्वाग्रं, मृता सा लज्जिता सती ।५। • अर्वत् - अश्वः । GSEXX १०६४ आ.नि. प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम् मृषावादपरिहारे कोडणकश्रावककथा। स्वदारमन्त्रभेदे मथुरावणिगुदाहरणम् । गाथा-१५६१ १०६४ [५६०] 33XXXXXX

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626