Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
१०९४
*************
जाते तु समाधौ पूर्वविधिः । अथ पूर्वार्ध प्रत्याख्यानम् । तच पौरुषीवत् केवलं महत्तरागारेणं त्यधिकम् । पूर्वं च तदर्धं च पूर्वार्धं दिनस्याद्यप्रहरद्वयम्, तत्प्रत्याख्याति षडाकाराः प्राग्वत् महत्तरागारेणंति 'महत्तरं प्रत्याख्यानानुपालनादपि बहुतरनिर्जरानिमित्तम्, पुरुषान्तराऽसाध्यं ग्लानचैत्यसङ्घादिकार्यम्, तदेवाकारोऽपवादो महत्तराकारस्तेनार्वागपि भुञ्जानस्य न भङ्गः । यच्चात्रैव महत्तराकार पाठो, न नमस्कारसहितादौ तत्र कालमहत्त्वाल्पत्वहेतुः ।
अथैकाशनं -
एगासणं पञ्चक्खाइ दुविहं तिविहं चउव्विपि आहारं असणं पाणं खाइमं साइमं अत्रत्थणाभोगेणं सहसागारेणं सागारि यागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिर ।
***********
आ.नि.
प्रत्याख्यानाध्ययनम्
* भावप्रत्याख्यानम् सूत्रव्याख्या आकारार्थः ।
गाथा - १५९८
एकं सकृदशनं भोजनम्, एकं वा आसनं पुताचलनतो यत्र तदेकाशनं एकासनं वा । अत्राष्टावाकाराः । आद्यावन्त्यौ चाकारौ प्राग्वत् 'सागारियागारेणं' सहागारेण वर्त्तत इति सागारः स एव 'सागारिको' गृहस्थः, स एवाकार: सागारिकाकारः । साधोर्भुञ्जानस्य चले सागारिके आगते क्षणं प्रतीक्षणं स्थिरे तु ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः । गृहस्थस्य तु येन दृष्टं भोजनं न जीर्यति, तदादिः सागारिकः । 'आउंटणपसारणेणं आकुञ्जनं' जङ्घादेः सङ्कोचनम्, प्रसारणं तस्यैव ऋजुकरणम्,' आकुञ्जने प्रसारणे वाऽसहिष्णुतया क्रियमाणे किञ्चिदासनं १. 'त्वधिकं' छ, 'ति अधिकं' ल । पुतः कटीप्रदेशादधस्तनो भागः ।
*********
१०९४ [५९०]

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626