Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 616
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ११०१ विहिगहियं विहिभुत्तं उद्धरियं तह गुरुहिं भणिओ य । ताहे वंदणपुव्वं, भुंजइ सो संदिसावेउं । ।१६१० ।। 'विधिना' अलुब्धैर्गृहीतम् । 'विधिना' अशठैर्भुक्तम् । उद्धृतं गुर्वाज्ञया वन्दनकं दत्वा पारिष्ठापनिकं संदेश्य भोक्तुं कल्पते । । १६१० ।। अत्र चतुर्भङ्गी - चउरो य हुंति भंगा, पढमे भंगंमि होइ आवलिया । इत्तो य तइयभंगे, आवलियाणं तु संजोगा । । १६११ । । विधिगृहीतं विधिभुक्तम् । अविधिगृहीतं विधिभुक्तम् । अनयोः प्रथमतृतीयभङ्गयोः पारिष्ठापनिकमावलिकाक्रमेण कल्पते । विधिगृहीतमविधिभुक्तं अविधिगृहीतमविधिभुक्तं अनयोर्द्वितीयचतुर्थभङ्गयोर्न कल्पते, तत्त्यज्यते । असंसृष्टस्यैव वस्तुनः पारिष्ठापनिकं क्रियत इत्याचरणा ।। १६११ । । उक्तं च प्रत्याख्यानम् । प्रत्याख्यातारमाह - पचक्खाएण कया, पञ्चक्खाविंतए ण सूयाओ । उभएवि जाणगेयर, चउभंगे गोणिदिट्ठतो । । १६१२ । । ********** प्रत्याख्यात्रा प्रत्याख्यानप्रकथयित्रा गुरुणा प्रत्याख्यापयितरि 'प्रत्याख्यानं मां कारयतेति' प्रयोक्तरि शिष्ये सूचा कृता । उभयेऽपि ज्ञानदर्शनरूपे चतुर्भङ्गी । अत्र गोदृष्टान्तः । अग्रे भावयिष्यते । । १६१२ । । पुनराह - • सूचा उल्लिङ्गना । ******** आ.नि. प्रत्याख्याना ध्ययनम् प्रत्याख्याता । गाथा १६१०१६१२ ११०१ [५९७]

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626