Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्मुक्त:
श्रीतिलकाचार्यलघुवृत्तिः
११०५
※滾滾餐
तं दृष्ट्वा पृष्टवान् कोऽयमाख्यंस्तस्याथ तं जनाः । अनाथोऽयमिहाऽऽयासीत्क्रीडन् गोपैः सह स्थितः ।१३। स एवायमिति श्रेष्ठी, तं ज्ञात्वा चकितस्ततः । लेखं दत्वा गृहे प्रैषीद्द्वतो राजगृहेऽथ सः ॥१४ ॥ बहिर्देवकुले तस्य, श्रान्तः सुष्वाप तत्र च । प्राग्भवानशनोपात्तपुण्याकृष्टेव तत्क्षणात् ॥१५ ॥ तस्यैव श्रेष्ठिनः पुत्री, विषाऽऽगादर्चना कृते । पितृनामाङ्कमालोक्य, लेखं तत्पार्श्ववर्तिनम् । १६ । दामन्नकं च तं ज्ञात्वा, सद्यो लेखमवाचयत् । एतस्याऽधौतपादस्य, पुत्र ! देयं विषं त्वया ॥१७ । दध्यौ सा न विरूपं मे, पिता ध्यायति कस्यचित् । विस्मृत्या न ददौ कर्णं, सकर्णोऽपि स्फुटं पिता । १८ । ततो नेत्राञ्जनेनाऽसौ दत्वा रेखां विषां व्यधात् । लेखं तथैव कृत्वा तं तदुपान्तेऽमुचद्विषा । १९ । प्रबुद्धो गृहे गत्वाऽऽर्पयल्लेखं तदैव च । स्वसारं श्रेष्ठिसूस्तेन सार्धं तां पर्यणाययत् ॥ २० ॥ आगात्सागरपोतोऽथ दृष्ट्वा तं खेदभूरभूत् । मृतः तस्यान्यदा सूनुर्विसूच्या कुलवर्धनः । २१ । तच्छ्रुत्वा हृदयस्फोटाद्ययौ श्रेष्ठ्यपि पञ्चताम् । ततस्तस्य गृहस्वामी, राज्ञा दामनकः कृतः । २२ । ततो माङ्गलिकं कर्तुं तस्याऽऽगात्प्रमदाकुलम् । गायति स्म तदा तत्र, सुस्वरं गीतिकामिमाम् ॥ २३ ॥ अणुपुंखमावहंता वि, अणत्था तस्स बहुगुणा हुंति । सुहदुःक्खकच्छपुडओ, जस्स कयंतो वह पक्खं ॥२४॥
• श्रेण्या आपतन्तोऽप्यनर्थास्तस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षम् ।
*********
********
आ.नि. प्रत्याख्यानाध्यययनम् प्रत्याख्यानफलम् परलोकफले दामन्नककथा | गाथा - १६१९
100/
११०५ [६०१]

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626