Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०९६
पाणस्स लेवाडे वा अलेवाडेण वा अच्छेण वा बहुलेवेण वा ससित्थेण वा असित्थेण वा वोसिरइ ।
इहाप्यन्यत्रेत्यनुवृत्तेः । लेपकृताद्वा भाजनाद्युपलेपकात् खर्जूरपानकादेः । अलेपकृतान्निर्लेपात् वा शब्दा न्निर्लेपेनेव लेपकारिणाऽप्युपवासादेर्न भङ्गः । अच्छाद्वा निर्मलादुष्णोदकादेः । बहुलाद्वा गडुलात्तन्दुलोदकादेः । ससिक्थाद्वा भक्तलवोपेतादवश्रावणादेः । असिक्थाद्वा सिक्थवर्जितात् पानकाहारादन्यत्र व्युत्सृजति । 'चरिमि चत्तारि' चरमोऽन्त्यो भागः, स दिवसस्य भवस्य वा तद्विषयं प्रत्याख्यानमपि * चरिमम्, तत्र दिवसचरिमं सूर्योद्गमान्तम् भवचरिमं यावज्जीवम् । द्वयोरपि चत्वार आकाराः दिवसचरिमं भवचरिमं च पचक्खाइ दुविहं तिविहं चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ।
ननु दिवसचरिमं निःफ [ष्फ]लम्, एकासनादिकेनैव गतार्थत्वात् । नैवम्, एकासनादिकं ह्यष्टाद्याकारम् एतच्च चतुराकारम् । अत आकाराणां सङ्क्षेपकरणात्सफलमेवेदम्, निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात् स्मारकत्वाच्च फलवदेव ।।१५९९ ।।
पंच चउरो अभिग्गहे, निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ, हवंति सेसेसु चत्तारि ।। १६०० ॥ पञ्च चत्वारश्चाभिग्रहे आकारा इति सामान्येनोक्तम् । विशेषस्तु अप्रावरणे । अप्रावरणाख्येऽभिग्रहे 'चोलपट्टागारेणंति' पञ्चम आकार: १. 'लेवालेण' ल ख । २. 'अलेवालेण' ल ख । ३. बहलेणवा छ ख प, प । निर्लेपेन सदृशेन लेपकारिणोदकेन इत्यर्थः ।
आ.नि.
प्रत्याख्याना
ध्ययनम् भावप्रत्याख्यानम्
सूत्रव्याख्या
* आकारार्थः ।
* गाथा - १६००
१०९६ [५९२]

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626