SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०९६ पाणस्स लेवाडे वा अलेवाडेण वा अच्छेण वा बहुलेवेण वा ससित्थेण वा असित्थेण वा वोसिरइ । इहाप्यन्यत्रेत्यनुवृत्तेः । लेपकृताद्वा भाजनाद्युपलेपकात् खर्जूरपानकादेः । अलेपकृतान्निर्लेपात् वा शब्दा न्निर्लेपेनेव लेपकारिणाऽप्युपवासादेर्न भङ्गः । अच्छाद्वा निर्मलादुष्णोदकादेः । बहुलाद्वा गडुलात्तन्दुलोदकादेः । ससिक्थाद्वा भक्तलवोपेतादवश्रावणादेः । असिक्थाद्वा सिक्थवर्जितात् पानकाहारादन्यत्र व्युत्सृजति । 'चरिमि चत्तारि' चरमोऽन्त्यो भागः, स दिवसस्य भवस्य वा तद्विषयं प्रत्याख्यानमपि * चरिमम्, तत्र दिवसचरिमं सूर्योद्गमान्तम् भवचरिमं यावज्जीवम् । द्वयोरपि चत्वार आकाराः दिवसचरिमं भवचरिमं च पचक्खाइ दुविहं तिविहं चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । ननु दिवसचरिमं निःफ [ष्फ]लम्, एकासनादिकेनैव गतार्थत्वात् । नैवम्, एकासनादिकं ह्यष्टाद्याकारम् एतच्च चतुराकारम् । अत आकाराणां सङ्क्षेपकरणात्सफलमेवेदम्, निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात् स्मारकत्वाच्च फलवदेव ।।१५९९ ।। पंच चउरो अभिग्गहे, निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ, हवंति सेसेसु चत्तारि ।। १६०० ॥ पञ्च चत्वारश्चाभिग्रहे आकारा इति सामान्येनोक्तम् । विशेषस्तु अप्रावरणे । अप्रावरणाख्येऽभिग्रहे 'चोलपट्टागारेणंति' पञ्चम आकार: १. 'लेवालेण' ल ख । २. 'अलेवालेण' ल ख । ३. बहलेणवा छ ख प, प । निर्लेपेन सदृशेन लेपकारिणोदकेन इत्यर्थः । आ.नि. प्रत्याख्याना ध्ययनम् भावप्रत्याख्यानम् सूत्रव्याख्या * आकारार्थः । * गाथा - १६०० १०९६ [५९२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy