Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 583
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः तझ सौर्यपुरेभ्याभ्यां, दृष्ट्रेकेकमुपाददे । तदेवोद्वाहितं युग्मं, दारकोऽपि गतोऽन्यदा ।३। मथुरायां व्यधात्तत्र, स्वकीयां जननी जनीम् । दारिका तत्स्वसा दारा, धर्म श्रुत्वाऽग्रहीद्वतम् ।४। साऽपि जाताऽवधिज्ञाना, तत्रेव विहरन्त्यगात् । तस्या एव गृहे तस्थौ, तस्याः पुत्रोऽस्ति पुत्रजः ।५। बालं विलोक्य सा साध्वी, तान् बोधयितुमब्रवीत् । भ्राताऽसि तनुजन्माऽसि, वरस्याऽवरजोऽसि च । भ्रातृव्योऽसि पितृव्योऽसि, पुत्रपुत्रोऽसि चार्भक !।६।। यश्च ते बालक ! पिता, स मे भवति सोदरः । पिता पितामहो भर्ता, तनयः श्वशुरोऽपि च ।७। यावत्बालक ते माता, सा मे माता पितामही । भ्रातृजाया वधूः श्वश्रूः, संपत्त्री च भवत्यहो ।८।। इत्युक्त्वा साऽर्पयामास, स्वां कुबेराय मुद्रिकाम् । तां दृष्ट्वा सोऽपि तं सर्व, जज्ञे सम्बन्धविप्लवम् ।। कुबेरदत्तः संवेगमासाद्य प्राव्रजत्तदा । कुबेरसेना श्राद्धाऽभूदार्या च विहताऽन्यतः ।१०। एतानैहिकान् दोषान् ज्ञात्वा परस्त्री परिहार्या । इतो निवृत्तस्य तु गुणः । अत्रोदाहरणंआनन्दपुरवास्तव्यो, विप्रो दारिद्र्यदुःखितः । उपवासळन्तरेन्द्रमाराध्यामार्गयद्वरम् ।। अवादीद्व्यन्तरस्तुष्टः, किं यच्छामि जगदे सः । निश्चितं भोजनं देहि, यावत्पुण्यमुपार्जये ।। १. 'जगाद' ल, प, ल,। आ.नि. प्रत्याख्याना ध्ययनम् * भावप्रत्याख्यानम् अणुव्रतानि * परदारगमनदोषे कुबेरदत्ताकथा। गाथा-१५६१ १०६८ १०६८ [५६४]

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626