Book Title: Atmanushasanam
Author(s): Gunbhadrasuri, A N Upadhye, Hiralal Jain, Balchandra Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
४२
[ श्लो० ४२
आत्मानुशासनम्
कृष्ट्वोवा नृपतीन्निषेव्य बहुशो भ्रान्त्वा वनेऽम्भोनिधौ fe क्लिश्नासि सुखार्थमत्र सुचिरं हा कष्टमज्ञानतः । तैलं त्वं सिकतास्वयं मृगयसे वाञ्छेद्विषाज्जीवितुं नवाशाग्रहनिग्रहात्तव सुखं न ज्ञातमेतत्त्वया ॥ ४२ ॥ आशाहुताशनग्रस्तवस्तूच्चैवंशजां जनाः । हा किलैत्य सुखच्छायां दुःखघर्मापनोदिनः ॥ ४३ ॥
कृष्ट्वेत्यादि । कृष्ट्वा भूमि विलिख्य । उप्त्वा बीजं प्रक्षिप्य कृषि कृत्वेत्यर्थ: । नृपतीन् निषेव्य राजसेवां कृत्वा । बहुशो अनेकधा । अम्भोनिधौ समुद्रे । किम् अज्ञानत: क्लिश्नासि क्लेशं व्रजसि । अत्र ससारे । हा विषादे कष्टमेतत् । त्वम् अयम् अज्ञानत: तैलं सिकतासु वालुकासु मृगयसे अन्वेषयसे । ननु अहो । आशाग्रहनिग्रहात् आग्रह : प्राणिनां पारतन्त्र्यहेतुत्वात् । तस्य निग्रहात् ||४२ ॥ उपदिष्टेऽपि सुखोपायं तदनिग्रहं कुर्वाणाः प्राणिनः एतत्कुर्वन्ति इत्याह-- आशेत्यादि । आशैव हुताशनोऽग्निः प्राणिनां संतापकारित्वात् । तेन प्रस्तानि च तानि वस्तूनि च तान्येव उच्चैवंशाः तेभ्यो जातां सुखच्छायां सुखाय छाया सुखस्य वा छाया लेशः । छाया हि प्रकाशावरणं लेशरचोच्यते । किलैत्य आश्रये अरुचौ लोकोक्तौ वा । एतत्प्राप्य दुःखधर्मापनोदिन : दुःखमेव घर्मो दाहसंतापजनकत्वात् तस्य अपनोदिनः स्फोटका : भवन्ति ॥ ४३ ॥ सुखलवमात्रमपि देवात् कथमपि प्राप्तं स्थिरं न भवति इति
1
रहे हो ? खेद है कि तुम अज्ञानतासे यह जो कष्ट सह रहे हो उससे ऐसा प्रतीत होता है जैसे कि तुम वालुमें तेल की खोज कर रहे हो अथवा विषभक्षणसे जीनेकी इच्छा कर रहे हो । अभिप्राय यह कि जिस प्रकार वालुमें तेलकी प्राप्ति असम्भव है अथवा विषके भक्षणसे जीवित रहना असम्भव है उसी प्रकार उक्त कृषि आदिके द्वारा यथार्थ सुखका प्राप्त होना भी असम्भव है । हे भव्य ! क्या तुझे यह ज्ञात नहीं है कि तेरा वह अभीष्ट सुख निश्चयतः आशा ( विषयाभिलाषा) रूप पिशाचीके नष्ट करनेसे ही प्राप्त हो सकता है ? ॥ ४२ ॥ खेद है कि अज्ञानी प्राणी आशारूप अग्निसे व्याप्त भोगोपभोग वस्तुओंरूप ऊंचे वांसोंसे उत्पन्न हुई सुखकी छाया ( सुखाभास = दुख) को प्राप्त करके दुखरूप सन्तापको दूर करना चाहते हैं ॥