Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 15
________________ आप्तमीमांसा। लताचूतादेरपि कचिदेव दर्शनात् प्रेक्षावतां किमिव निश्शंकं चेतः स्यात् ! । सदेत्तदृष्टसंशयैकोतवादिनां विदग्धमर्कटकानामिव स्वलांगूलभक्षणं । यत्नतः परीक्षितं कार्य कारणं नातिवर्तते ! इति चेत् स्तुतं प्रेस्तुतं । ततोऽयं प्रतिपत्तेरपराधो नानुमानस्येति अनुकूलमाचरति । तदेवं तत्सुनिश्चितासंभवद्बाधकप्रमाणत्वमर्हत्येक सकलज्ञत्वं साधयति नान्यत्र, इत्यविरोध इत्यादिना स्पष्टयति । तत्रेष्टं मतं शासनमित्युवचर्यते निराकृतवाचोऽपि कचिदप्रतिषेधात् । नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । प्रतिसविदिताकारेच्छा तदा संभवंती पुनः स्मर्येत वांछांतरवत् । ततश्चैतन्यकरणपाटवयोः साधकतमत्वं सहकारिकारणांतर न वै नियतमपेक्षणीयं नक्तंचरादेः सस्कृतचक्षुषो वा नापेक्षिताऽलोकसन्निधेरूपोपलंभात् । नचैवं संवित्करणपाटवयोरप्यभावविवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते संवित्करणवैकल्ये यथाविवक्षं वागवृत्तेरभावात् । नच दोषजातिस्तद्धेतुर्यतस्तां वाणी नातिवर्तेत तत्प्रकर्षाप्रकर्षानुविधानाभावात् । बुद्धयादिवत्प्रमाणतः सिद्धं प्रसिद्धं तदेव कस्यचिद्बाधनं युक्तं विशेषणमेतत्परमतापेक्षं । प्रसिद्धेनाप्यनित्यत्वाद्यकांतधर्मेण बाधाकल्पनात् । नर्ते प्रमाणात्प्रेतिबंधसिद्धेरभ्युपगमात् । नच. परेषां प्रत्यक्षं-अमिधूमयोः क्षणभंगसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थ-विचारकत्वात् सन्निहितिविषयत्वाच्च । नचानुमानं-अनवस्थानुषंगात् । परोक्षांतर्भाविना नस्तर्केण संबंधो व्यवतिष्ठेत । तदप्रमाणत्वे न लैंगिक समारोपव्यच्छेदाविशेषात् । अधिगमोऽपि व्यवसायात्मैव तदनुपपत्तौ सतोऽपि दर्शनस्य साधनांतरापेक्षया संनिधानाभेदात्, सुषुप्तचैतन्यवत् ॥ ६॥ त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनां आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते ॥ ७॥ वृत्तिः-त्वद्-युष्मन्मतमेव आगम एव अमृतं सर्वात्मप्रदेशसुखकारणं दुःखनिवृत्तिलक्षणस्य परमानंदमुक्तिसुखस्य निमित्तं वा मतं अमृतं तस्माद्बाह्या बहिर्भूता मिथ्यादृष्टयः त्वन्मतामृतबाह्याः तेषां त्वन्मतामृतबाह्यानां-युष्मदागमद्विषतां । सर्वथा सर्वप्रकारैः स्वरूपपररूपविधिप्रतिषेधात्मकैः एकान्तं एकं धर्म नित्यत्वादिकमेव वदितुं शीलं येषां ते सर्वथैकांतवादिनः तेषां सर्वथैकांतवादिना एकस्वभावाभ्युपगच्छताम् । आप्ताः सर्वज्ञाः इति अभिमानः गर्वः अहंकारः तेन दग्धाः भस्मसात्कृताः प्रलयं नीताः, तेषां आप्ताभिमानदग्धानाम् । स्वस्य आत्मनः इष्टं मतं स्वेष्टं आत्माभ्युपगतप्रमाणप्रमाणफलं सर्ववस्तु । दृष्टेन प्रत्यक्षेण प्रत्यक्षप्रमितेन अनेकान्तात्मवस्तुना वा, बाध्यते विरोधमुपनीयते अन्यथा क्रियत इत्यर्थः । किमुक्तं भवति । भवदागमबाह्या आप्ताभिमानदग्धाः सर्वथैकान्तवादिनः तेषां स्वेष्टं दृष्टेन बाध्यते । धर्मकीर्तिमतनिरासार्थमन्वयव्यातरकावुक्तवानाचार्यः। द्रव्यार्थिकपर्यायार्थिकानुग्रहार्थं वा ॥७॥ परवादिस्वेष्टस्य दृष्टेन बाधां प्रदर्य इदानीं स्वेष्टेन स्वेष्टस्य बाधा दर्शयितुमाह अष्टशती-अनेकांतात्मकवस्तुसाक्षात्करणं बहिरंतश्च सकल जगत्साभीभूतं विपक्षे प्रत्यक्षविरोधलक्षणअनेन दक्षयति न हि किचिद्रपांतरविकलं सदसन्नित्यानित्याद्यकांतरूपं संवेदनमन्यद्वा पश्यामो यथा प्रतिज्ञायते चित्रज्ञानवत्कथंचिदसंकीर्णविशेषेकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् । सामान्यविशेषेकात्मनः संवित्तिरकांतस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनाहतकल्पनामस्तं गमयति इति किं नः प्रमाणांतरेण । न हि दृष्टाज्ज्येष्टं गरिष्ठमिष्टं तदभावे प्रमाणांतराप्रवृत्तेः समारोपविच्छे- . दविशेषात् अन्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच्च । अनैकांतकांतयोरुपलंभानुपलंभयोरेकत्वप्रदर्श १. प्रकृतं । २ समर्पित । ३ अविनाभावः। ४ सौगताना। ५ निर्विकल्पकत्वात् । बौद्धाचार्यः ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90