Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 62
________________ प्रमाणपरक्षिा। ज्ञानात्मैव प्रमाता स्यात् , अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणं स्वार्थप्रमितौ ज्ञानक्रियात्मिकायां करणत्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनान्नाज्ञानं प्रमाणं, अन्यत्रोपचारतः । ततोनाज्ञानेन इंद्रियसन्निकर्षलिंगशब्दादिना साधनस्य व्यभिचारः । नापि व्यातिरकासिद्धिः सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्तौ प्रमाणत्वस्य साधनस्य पटादौ विनिवृत्तिविनिश्चयात् । केवलव्यतिरेकिणोऽपि साधनस्य समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवदिति । किं पुनः सम्याग्ज्ञनं ? अभिधीयते-स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसायात्मकंतन सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः। सम्यग्ज्ञानं च विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधादीनां साध्यधर्मिणि सद्भावात् । स्वसंवेदनेंद्रियमनोयोगिप्रत्यक्षैः सम्यग्ज्ञानैः-अव्यवसायात्मकैर्व्यभिचारी हेतुः इति स्वमनोरथमात्रं सौगतस्य तेषां सम्यग्ज्ञानत्वविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्त तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्त अप्रवर्तकस्याप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वविषयमपदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाण तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशयवदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते तस्य स्वविषयोपदर्शकत्वाऽसिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यदव्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमव्यवसायात्मकं च सौगताभिमतदर्शनमिति व्यापकानुपलब्धिः सिद्धा। व्यवसायात्मकस्य व्यापकस्याभावे तव्याप्यत्वस्य स्वविषयोपदर्शकत्वस्याननुभवात् । __ स्यादाकूतं-- तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसा- ' यजनकत्वेन व्याप्तत्वात् । नीलधवलादौ व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः। क्षणक्षयस्वर्गप्रापणशक्त्यादौ व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् | गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ? तदेतदविचारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा ? इति विचार्यते- यधुपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् । न तु तन्निमित्तं दर्शनं सन्निकर्षादिवत् | अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविषयोपदर्शकं ? आतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्विकल्पतजनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षणस्थावस्तुत्वात् । तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूपदर्शक एव व्यवसाय इत्यपि मिथ्या तयोरेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजोव्यवसायो वा ज्ञानांतरं वा ? न तावदर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः तस्य दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकं वा ? न तावन्निर्विकल्पकं तस्य दृश्य विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तदद्वयाविषयं संवेदनं तदुभयैकत्वमध्यवसातुं समर्थ । तथाहि- यद्यन विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा रससंवेदनं स्पर्शरूपोभयं । न विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिदृश्यविकल्प्यथोरेकत्वाध्यवसायः सिद्धयेत् तेतो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननादर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधूतकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90