Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 75
________________ सनातन जैन ग्रंथमालायां ६६ अतिप्रसंगात् इति परप्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमानं संभवति तदसंभवे च न स्वार्थानुमानमवतिष्ठते सकलयोगिनस्तदव्यवस्थाने च न सकलयोगिप्रत्यक्षेण व्याप्तिग्रहणं युक्तिमधिवसति । प्रत्यक्षानुपलभाभ्यां साध्यसाधनयोर्व्याप्तिप्रतिपत्तिरित्यप्यनेनापास्तं प्रत्यक्षेण व्याप्तिप्रतिपत्तिनिराकृतौ प्रत्यक्षांतरलक्षणेनानुपलंभेन तत्प्रतिपत्तिनिराकृतिसिद्धेः । योप्याह कारणानुपलंभात् कार्यकारणभावव्याप्तिः । व्यापकानुपलंभाद् व्याप्यव्यापकभावः साकयेन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः । तथाहि यावान् कश्चिद्धूमः स सर्वोप्यग्निजन्मा महाहृदादिष्वग्नेरनुपलंभाद्भूमाभावसिद्धेरिति कारणानुपलंभानुमानं । यावंती शिंशपा सा सर्वा वृक्षस्वभावा । वृक्षानुपलब्धौ शिंशपात्वाभावसिद्धे इति व्यापकानुपलभो लिंगं, एतावता साकल्येन साध्यसाधनव्याप्तिसिद्धिः इति सोऽपि न युक्तवादी तथानवस्थानुषंगात् । कारणानुपलंभव्यापकानुपलंभयोरपि हि स्वसा - ध्येन व्याप्तिर्न प्रत्यक्षतः सिद्ध्येत् पूर्वोदितदोषासक्तेः । परस्मादनुमानात्तत्सिद्धौ कथमनवस्था न स्यात् ? प्रत्यक्षानुपलं पृष्टभाविनो विकल्पान् स्वयमप्रमाणकात् साध्यसाधनव्याप्तिसिद्धौ किमकारणं प्रत्यक्षानुमानप्रमाणपोषणं क्रियते ? मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेर्व्याप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्षं प्रमाणमिच्छता सामस्त्येन तत्प्रामाण्यसाधनमनुमानमंतरण नोपपद्यते इत्यनुमानमिष्टं । तथा माध्यसाधनव्याप्तिज्ञातप्रमाणमंतरेण नानुमानोत्थानमस्ति इति तदप्यनुज्ञातव्यं तच्चोहाख्यमविसंवादकं प्रमाणांतरं सिद्धमिति, न प्रत्यक्षानुमाने एव प्रमाणे इति प्रमाणसंख्यानियमो व्यवतिष्ठते । एतेन वैशेषिक प्रमाणसंख्यानियमो प्रत्याख्यातः । स्यान्मतं साध्यसाधनसामान्ययोः क्वचिद्व्यक्तिविशेषे प्रत्यक्षत एवं संबंधसिद्धेर्न प्रमाणांतरमन्वेषणीयं यावान् कश्चिद्भूमः स सर्वोऽपि अग्निजन्मानग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य प्रमाण तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । कचिदनुमितानुमाने साध्यसाधने आदित्यगमनशक्तिरस्ति गतिमत्त्वात् । आदित्यो गतिमान् देशादेशांतरप्राप्तेः देवदत्तवत् संबंधबोधनिबंधनानुमानं फलवत् ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति तदप्यसारं सविकल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधगृहीतुमशक्तेः । साध्यं हि किमग्निसामान्यं, अग्निविशेषोग्निसामान्यविशेषो वा ? न तावदग्निसामान्यं सिद्धसाध्यतापत्तेः । नाप्यग्निविशेषस्तस्यानन्वयात् । बन्हिसामान्यविशेषस्य हि साध्यत्वे तेन धूमस्य संबंध: सकलंदेशकालव्याप्यध्यक्षतः कथं सिद्व्येत् ? तथा तत्संबधासिद्धौ च यत्र यत्र यदा यदा धूमोपलंमः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनुमानं नोदयमासादयेत् । न झन्यथा संबंधग्रहणमन्यथानुमानोत्थानं नामातिप्रसंगात् ततः संबंधज्ञानं प्रमाणांतरमेव प्रत्यक्षानुमानयोस्तदविषयत्वात् । यच्चोक्तं प्रत्यक्षफलत्वादूहापोहविज्ञानस्याप्रमाणत्वमिति तदप्यसम्यक् विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् हानोपादानापेक्षा बुद्धिफलकारणत्वाद्विशेष्यज्ञानस्य प्रमाणत्वे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । प्रमाणविषयत्वपरिशोधकत्वानोहः प्रमाणमित्यपि वार्तं प्रमाणविषयस्याप्रमाणेन परिशोधनविरोधात् । तथा तर्कः प्रमाणं प्रमाणविषयपरिशोधकत्वात् यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधको दृष्टो यथा प्रमेयोऽर्थः प्रमाणविषयपरिशोधकश्च तर्कस्तस्मात्प्रमाणमिति केवलव्यतिरेकिणानुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धेः, न वैशेषिकाणां प्रमाणद्वयसंख्यानियमः सिद्ध्येत् । एतेन द्वित्रिचतुःपंचपद प्रमाणवादिनां प्रमाणसंख्यानियमः प्रतिध्वस्तः संख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्सिद्धिनिबंघनस्य प्रमाणांतरत्वोपपत्तेः । नैयायिकानां च प्रत्यक्षानुमानागमैरिवोपमानेनापि लिंगलिंगिग्रहणासंभघात् । प्रभाकराणां चं प्रत्यक्षानुमानापमानागमैरिव अर्थापत्त्यापि हेतुहेतुमत्संबंध सिद्धेरसंभवात् । भट्टमतानुसारिणामपि प्रत्यक्षानुमानोपमानागमार्थापत्तिभिरिव अभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तन्निश्चयनिबंधनस्योद्दज्ञानस्य प्रमाणांतरस्य सिद्धिरवश्यंभाविनी दुःशक्या निराकर्तुं । नूहः स्वविषये संबद्धोऽसंबद्धो वा न तावदसंबद्धस्तं प्रत्याययितुमीशोऽतिप्रसंगात् । संबद्धश्चेत् कुतस्तत्प्रतिपत्तिः ? न तावत्प्रत्यक्षात् तस्य तदविषयत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनरुहांतरात -

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90