Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
प्रमाणपरीक्षा। तथा भूतमभूतस्याप्यूधमन्यदपीदृशं ॥ ५॥ अभूतं भूतमुन्नीतं भूतस्यानेकधा बुधैः तथा ऽभूतमभूतस्य यथायोग्यमुदाहरेत् ॥१॥ बहुधाप्येवमाख्यातं संक्षेपण चतुर्विधं
अतिसंक्षेपतो द्वेधोपलंभानुपलभभृत् ॥ ७॥ एतेन कार्यस्वभावानुपलभविकल्पात् त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः सहचरादेलिंगांतरत्वात् प्रत्यक्षपूर्वकं त्रिविधमनुमान-पूर्ववच्छषवत्सामान्यतादृष्टमित्यपि। यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववत्सामान्यतोदष्टं केवलव्यतिरोक प्रर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेकि व्याख्यायते त्रिसत्रीकरणादस्य सत्रस्य तदान किंचिद्विरुद्धं निगदितलिंगप्रकारेषु त्रिविधस्यापि संभवात् । यथोपपत्तिनियमात्केवलान्वयिनो गमकत्वाविरोधात्। तत्र वैधर्म्यदृष्टांताभावेऽपि साध्याविनाभावनियमनिश्चयात् । अथ पूर्ववत्कारणात्कार्यानुमानं शेषवत् कार्याकारणानुमान सामान्यतो दृष्ट । अकार्यकारणादकार्यकारणानमानं सामान्यतोऽविनाभावमात्रादिति व्याख्यायते तदापि स्यावादिनामभिमतमेव तथा सर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात । यदापि पूर्ववत्पूर्वलिंगलिंगिसंबंधस्य कचिन्निश्चयादन्यत्र पूर्ववद्वर्तमानं शेषवत्परिशेषानुमानं प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तेः । सामान्यतो दृष्टं विशिष्टव्यक्तौ संबंधाग्रहणात्सामान्येन दृष्टं यथा-गतिमानादित्यः देशाद्देशांतरप्राप्तेः देवद. तवदिति व्याख्या विधीयते तदापि स्याद्वादिनां नानवधेयं प्रतिपादितहेतुप्रपंचस्यैव विशेषप्रकाशनात् । सर्व हि लिंगं पूर्ववदेव परिशेषानुमानस्यापि पूर्ववत्त्वासद्धेः, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य पूर्व कचिनिश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ साधनस्य प्रयोगात् । सामान्यतोदृष्टस्य च पूर्ववत्त्वप्रतीतेः कचिद्देशांतरप्राप्तेः । गतिमत्यविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेरन्यथा तदनुमानाप्रवृत्तेः । परिशेषानुमानमेव वा सर्व संप्रतीयते पूर्ववतोऽपि धूमात्पावकानुमानस्य प्रसक्तौ पावकप्रतिषेधात् प्रवृत्तिघटनात। तदप्रतिपत्तौ विवादानुपपत्तेरनुमानवैयर्थ्यात तथा सामान्यतोदृष्टस्यापि देशांतरप्राप्तेरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तरिति । सकलं सामान्यतादृष्टमेव वा सर्वत्र सामान्येनैव लिंगलिंगि संबंधप्रतिपत्तेर्विशेषतस्तत्संबंधस्य प्रतिपत्तुमशक्तेः । केन चिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव प्रकारांतरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिश्चय एव हेतोः प्रयोजकत्वनिमित्तं तस्मिन् सति हेतुप्रकारभेदपरिकल्पनायाः प्रतिपत्तुरभिप्रायवैचित्र्यात् । वैचित्र्यं नान्यथेति सुनिश्चितं नश्वेतसि तथा प्रतीतेरबाध्यमानत्वात् । यदापि-अवीतं वीतं वीतावीतमिति लिंग त्रिविधमनुमन्यते तदापि नान्यथानुपपन्नत्व नियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुप्रपंचबीहभूतं समयांतरभाषया केवलान्वय्यादि त्रयस्यैव तथाविधानात् । कचित्साध्यसाधनधर्मयोः साहचर्यमविनाभावनियमलक्षणमुपलभ्यान्यत्र साधनधर्मदर्शनात् । साध्यधर्मप्रतिपत्तिरावीतमुच्यते यथा गुणागुणिनी परस्परं भिन्नौ भिन्नप्रत्ययविषयत्वात् घटपटवदीति तच्च केवलान्वयीष्यते कथंचिद्भदएव साध्ये ऽन्यथानुपपन्नत्वसिद्धः सर्वथा भेदे गुणगुणिभावविरोधात् गमकत्वासिद्धेः । तथा कचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्ति नियमवतीमुपलभ्यान्यत्र तद्धर्मस्य निश्चयात् साध्यसिद्धिर्वीतं कथ्यते यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इति तदिदं केवल व्यतिरेकीष्टं परिणामिनात्मना सात्मकत्वव्यावृत्तौ भस्मनि प्राणादिमत्त्वव्यावृत्तिनियमानश्चयात् निरन्वय क्षणिकचित्तवत् कूटस्थेनात्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् । वीतावीतं तु तदुभयलक्षणयोगादन्वयव्यतिरेक धूमादेः पावकाद्यनुमानं प्रसिद्धमेवेति न हेत्वंतरमस्ति ततः सूक्तं- अन्यथानुपपत्तिनियमनिश्चयलक्षणं साधनं अतिसंक्षेपविस्तरतोऽभिहितस्य सकलसाधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्साधनात् साध्ये साधयितुं शक्ये, अभिप्रेते कचिदप्रसिद्ध च विज्ञानमनुमानमिति । साधयितुमशक्ये सर्वथैकांते साधनस्याप्रवृत्तेः तत्र तस्य विरुद्धत्वात् स्वयमनभिप्रेते चातिप्रसंगात् प्रसिद्ध च वैयर्थ्यात तस्य साध्याभासत्त्व प्रसिद्धेः प्रत्यक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयात् ।
१लिंगमिति पाठांतरं ।
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90