Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 89
________________ सनातनजैनग्रंथमालायां प्रमाणात्कथंचिद्भिन्नाभिन्न फलमिति ततस्तस्य सर्वथा भेदे बाधकवचनात् । अभेदवत्संवृत्या प्रमाणफलव्यवहार इत्यप्रातीतिकवचनं परमार्थतः स्वष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चेष्टसिद्धिलणमभ्यनुज्ञातव्यं । ततःसर्वपुरुषार्थसिद्धिविधानादिति संक्षेपः । इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्याविषयं फलं ततः प्रबुध्य तत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्याफलमिष्टमुच्चकैः ॥ १ ॥ इति श्रीस्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता ।

Loading...

Page Navigation
1 ... 87 88 89 90